________________
पद्मपुराणम् ।
११९
षष्ठं पर्व ।
चतुर्ज्ञानोपगूढात्मा ममास्त्यत्र समीपगः । गुरुस्तस्यांतिकं याम एष धर्मः सनातनः || २६४ ॥ आचार्ये त्रियमाणे यस्तिष्ठत्यंतिकगोचरे । करोत्याचार्यकं मूढः शिष्यतां दूरमुत्सृजन् ॥ २६५ ॥ नासौ शिष्यो नचाचार्यो निर्धमः स कुमार्गगः । सर्वतो भ्रंशमायातः स्वाचारात्साधुनिंदितः ॥ इत्युक्ते विस्मयोपेतौ जातौ देवनभश्वरौ । चक्रतुश्चेतसीदं च परिवारसमन्वितौ ॥ २६७ ॥ अहो परममाहात्म्यं तपसो भुवनातिगं । मुनेरेवंविधस्यापि यदन्यो विद्यते गुरुः ॥ २६८ ॥ ततस्तस्योपकंठे ते साधुनाधिष्ठिता ययुः । देवाश्च व्योमयानाश्च धर्मोत्कंठितचेतसः ॥ २६९ ॥ गत्वा प्रदक्षिणीकृत्य प्रणम्यादरतो मुनिं । नातिदूरे नचात्यंतसमीपे स्थितिमाश्रिताः ।। २७० ।। ततस्तां परमां मूर्तिं तपोराशिसमुत्थया । प्रज्वलंतीं मुनेर्दीप्ता दृष्ट्वा देवनभश्वराः ॥ २७१ ॥ चितां कामपि संप्राप्ता धर्माचारसमुद्भवां । प्रफुल्लनयनांभोजा महाविनयसंगताः ॥ २७२ ॥ ततो देवनभोयानावंजलिं न्यस्य मस्तके | पप्रच्छतुर्मुनिं धर्म फलं चास्य यथोचितं ॥ २७३ ॥ ततो जंतुहितासंग नित्यप्रस्थितमानसः । संसारकारणासंगदूरीकृत समीहितः ॥ २७४ ॥ सजांभोदगंभीरधीरया श्रमणो गिरा । जगाद परमं धर्म जगतोभ्युदयावहं ।। २७५ ।। तस्मिन् गदति तद्देशे लतामंडपसंश्रिताः । ननृतुः शिखिसंघाता मेघनादविशंकिताः ॥ २७६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org