________________
पद्मपुराणम् ।
षष्ठं पर्व। ततो विस्मयमापनस्तडिकेशो व्यचिंतयत् । नेदं बलं प्लवंगाणां किमप्यन्यदिदं भवेत् ॥२५१॥ ततो निरीहदेहोसौ माधुर्यामितया गिरा । वानरान्विनयेनेदमब्रवीनयपंडितः ।। २५२ ॥ संतो वदत के यूयं महाभासुरविग्रहाः । न प्रकृत्या प्लवंगाणां शक्तिरेषा समीक्ष्यते ॥ २५३ ॥ ततस्तं विनयोपेतं दृष्ट्वा खेचरपुंगवं । महोदधिकुमारेण वाक्यमेतदुदाहृतं ॥ २५४॥ तिर्यग्जातिस्वभावेन नितांतं चपलस्त्वया । अपराधः स्वजायायां हतो योसौ प्लवंगमः ॥२५५॥ सोहं साधुप्रसादेन संप्राप्तो देवतामिमां । महाशक्तिसमायुक्तां यथेच्छावाप्तसंपदां ।। २५६॥ विभूतिं मम पश्य त्वमिति चोक्त्वा परां श्रियं । स तस्मै प्रकटीचक्रे महोदधिः सुरोचितां॥२५॥ ततौसौ वेपथु प्राप्तो भयात्सर्वशरीरगं । विदीर्णहृदयो दृष्टरोमाविभ्रांतलोचनः ॥२५८॥ महोदधिकुमारेण माभैषीरिति चोदितः । जगाद गदगदं वाक्यं किं करोमीति दुःखितः॥२५९॥ ततस्तेन सुरेणासौ गुवैतिकमुपाहृतः । ताभ्यां प्रदक्षिणीकृत्य कृतं तस्यांहिवंदनं ॥२६॥ वानरेण सता प्राप्तं मया देवत्वमीदृशं । गुरुं भवंतमासाद्य वत्सलं सर्वदेहिनां ॥२६१ ॥ देवेनेत्यभिधायासौ स्तुतो वाग्भिः पुनः पुनः । अर्चितश्च महासृग्भिः पादयोः प्रणतस्तथा २६२ तदाश्चर्य ततो दृष्ट्वा खेचरेण तपोधनः । संपृष्टः किं करोमीति जगाद वचनं हितं ॥२६३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org