________________
११७
पद्मपुराणम्।
पर्छ पर्व । विपाटितौ स्वभावेन विनयप्रच्युतात्मना । नितांतं विद्यमानेन रुषा विकृतचक्षुषा ॥ २३८॥ समाश्वास्य ततः कांतां प्रगलत्स्तनशोणितां । निहतो वाणमाकृष्टय तडित्केशेन वानरः ॥२३९॥ वेगेन स ततो गत्वा पतितस्तत्र भूतले । तिष्ठति मुनयो यत्र विहायस्तलचारिणः ॥ २४० ॥ ततस्तं वेपथुग्रस्तं स वाणं वीक्ष्य वानरं । मुनीनामनुकंपाभूत्संसारस्थितिवेदिनां ॥ २४१॥ तस्मै पंचनमस्कारः सर्वत्यागसमन्वितः । धर्मदानसमुटुक्तरुपदिष्टस्तपोधनैः ।। २४२ ॥ ततः स विकृतां त्यक्त्वा तनुं वानरयोनिजां । महोदधिकुमारोभूत्क्षणेनोत्तमविग्रहः ॥ २४३ ॥ ततो यावदसा हंतु खेचरोन्यान्समुद्यतः । कपीस्तावदयं प्रातः कृतस्वतनुपूजनः ॥ २४४ ॥ हन्यमानां नरैः क्रूरैदृष्ट्वा वानरसंहतिं । चक्रे वैक्रियसमथ्योत्कपीनां महतीं चमूं ॥ २४५ ॥ दंष्ट्रांकुरकरालैस्तैर्वदनैर्भूविकारिभिः । सिंदूरसदृशच्छायैः कृतभीषणनिःस्वनैः ॥ २४६ ॥ उत्क्षिप्य पर्वतान्केचित्केचिदुन्मूल्य पादपान् । आहत्य धरणी केचित्पाणिना स्फाल्य चापरे२४७ क्रोधसंभाररौद्रांगा दूरोत्प्लवनकारिणः । बभणुवानराध्यक्षं खेचरं भिन्नचेतसं ॥ २४८ ॥ तिष्ठ तिष्ठ दुराचार मृत्योः संप्रति गोचरे । निहत्य वानरं पाप तवाद्य शरणं कुतः ॥ २४९ ॥ अभिधायेति तैः सर्व व्योम पर्वतपाणिभिः । व्याप्तं तथा यथास्मिश्च सूचीभेदोपि नेक्ष्यते२५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org