________________
पद्मपुराणम् ।
११६
षष्ठं पर्व । गत्यागमनसंवृद्धमभूत्प्रेम परं तयोः । यतश्चित्तमभूदेकं पृथक्त्वं देहमात्रतः ॥ २२५ ॥ तडित्केशस्य विज्ञाय श्रामण्यमुदधिस्वनः । श्रमणत्वं परिप्राप्तः परमार्थविशारदः ॥ २२६ ॥ तडित्केशः कुतो हेतोराश्रितो दुर्द्धराकृतिं । संपृष्टः श्रेणिकेनैवमुवाच गणनायकः ॥ २२७ ॥ अन्यदाथ तडित्केशः प्रमदाख्यं मनोहरं । निष्क्रांतो रंतुमुद्यानं कृतक्रीडनकालयं ॥ २२८ ॥ पबेंदीवररम्येषु सरःसु स्वच्छवारिषु । उद्यत्तरंगभंगेषु द्रोणीसंचारचारुषु ॥ २२९ ॥ दोलासु च महाासु रचितासनभूमिषु । तुंगपादपशक्तासु दूरपंखप्रवद्धिषु ॥ २३० ॥ ततः सोपानमार्गेषु रत्नरंजितसानुषु । द्रुमखंडपरीतेषु हेमपर्वतकेषु च ॥ २३१ ।। फलपुष्पमनोज्ञेषु चलत्पल्लवशालिषु । लतालिंगितदेहेषु महीरुहचयेषु च ॥ २३२ ॥ मुनिक्षोभनसामर्थ्ययुक्तविभ्रमसंपदा । पुष्पादिप्रचयाशक्तपाणिपल्लवशोभिना ॥ २३३ ॥ नितंबवहनायासजातस्वेदांबुविप्रषां । कुचकंपोज्वलत्स्थूलमुक्ताहारपुरत्विषां ॥ २३४ ॥ निमज्जदुद्भवत्सूक्ष्मवलिमध्यविराजिनां । निःश्वासाकृष्टमत्तालिवारणाकुलचेतसां ॥२३५ ।। स्रस्तांवरसमालंबिकराणां चलचक्षुषां । मध्यमास्थाय दाराणां स रेमे राक्षसाधिपः ॥ २३६ ॥ अथ क्रीडनशक्ताया देव्यास्तस्य पयोधरौ । श्रीचंद्राख्यं दधानायाः कपिना नखकोटिभिः२३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org