________________
पद्मपुराणम् ।
१४१
पर्व
पातालादथ निर्गत्य यथा भवनवासिनः । जग्मुः प्रत्यरि सोत्साहा भ्रातरः शस्त्रभासुराः ॥५५० ।। तेषामनुपदं लग्ना ततो राक्षसवाहिनी । चलदायुधधारोर्मिमालाव्याप्यनभस्तलं ।। ५५१ ।। निरीक्षिताः पितृभ्यां ते यावल्लोचनगोचरं । व्रजंतः स्नेहसंपूर्ण मानसाभ्यां समंगलं ।। ५५२ ।। त्रिकूटशिखरेणासौ ततस्तैरुपलक्षिताः । दृष्टयैव प्रौढ्या ज्ञाता गृहीतेति पुरी वरा ।। ५५३ ॥ वृजद्भिरेव तैः केचिदैत्या मृत्युवशीकृताः । केचित्प्रणवतां नीताः केचित्स्थानानिमोचिताः ५५४ विशद्भिः सैन्यमागत्य प्रणतैः शत्रुगोचरैः । ते सामंतैरलं जाता महांतः पृथुकीर्तयः ।। ५५५ ।। शत्रूणामागमं श्रुत्वा निर्घातो निर्ययौ ततः । युद्धशौंडञ्चलच्छत्र छायाछन्न दिवाकरः ।। ५५६ ।। ततोभवन्महायुद्धं सेनयोः सच्वदारणं । वाजिभिर्वारणैर्मत्तैर्विमानैः स्यंदनैस्तथा ।। ५५७ ।। महीमयमिवोत्पन्नं गगनं दंतिनां कुलैः । तथा जलात्मकं जातं तेषां गंडच्युतांभसा ॥ ५५८ ॥ वातात्मकं च तत्कर्णतालसंजातवायुना । तेजोमयं तथान्योन्यशस्त्राघातोत्थव न्हिना ।। ५५९ ।। नैः किमपरैर निहतैः क्षुद्रखेचरैः । कासौ कासौ गतः पापो निर्घात इति चोदयन् ॥ ५६० ॥ दृष्ट्वा मालीसितैर्बाणैः कृत्वा स्यंदनवर्जितं । निर्घातमसिनिर्घाताच्चक्रे संप्राप्तपंचतां ॥। ५६१ ।। निर्घातं निहतं ज्ञात्वा दानवा भ्रष्टचेतसः । यथास्वं निलयं याता विजयार्द्धनगाश्रितं ॥ ५६२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org