________________
पद्मपुराणम् ।
११३
षष्ठं पर्व । मंगलं यस्य यत्पूर्व पुरुषैः सेवितं कुले । प्रत्यवायेन संबंधो निराशे तस्य जायते ॥ १८६ ।। क्रियमाणं तु तद्भक्त्या करोति शुभसंपदं । तस्मादासेव्यतामेतद्भवतापि सुचेतसा ॥ १८७ ।। इत्युक्ते मंत्रिभिः सांत्वन् प्रत्युवाचाऽमरप्रभः । त्यजन् क्षणेन कोपोत्थविकारं वदनार्पित॥१८८॥ मंगलं सेविता पूर्वैः यद्यस्माकममी ततः । किमित्यालिखिता भूमौ यस्यां पादादिसंगमः १८९ नमस्कृत्य वहाम्येतान् शिरसा गुरुगौरवात् । रत्नादिघटितान् कृत्वा लक्षणान्मौलिकोटिषु १९० ध्वजेषु गृहश्रृंगेषु तोरणानां च मूर्द्धसु । शिरस्सु चातपत्राणामेतानाशु प्रयच्छत ॥ १९१ ।। ततस्तैस्तत्प्रतिज्ञाय तथासर्वमनुष्ठितं । यथा दिगीक्ष्यते या या तत्र तत्र प्लवंगमाः ॥ १९२ ॥ अर्थतस्य समं देव्या भुंजानस्य परं सुखं । विजया जिगीषायामकरोन्मानसं पदं ॥ १९३ ॥ प्रतस्थे च ततो युक्तः सेनया चतुरंगया । क्रपिध्वजः कपिच्छत्रः कपिमौलिः कपिस्तुतः १९४ श्रेणिद्वयं विजित्वासौ रणे सत्त्वविमर्दिनि । आस्थापयद्वशे राजा जग्राह न धनं तयोः ॥१९५॥ अभिमानेन तुंगानां पुरुषाणामिदं व्रतं । नमयंत्येव यच्छत्रु द्रविणे विगताशया ॥ १९६ ॥ ततोसौ पुनरागच्छत्पुरं किष्कुप्रकीर्तितं । विजयाचप्रधानेन जनेनानुगतायनः ॥ १९७ ॥ आधिपत्यं समस्तानां प्राप्य विद्याभृतामसौ । निश्चलां बुभुजे लक्ष्मी निगडैरिव संयुतां ॥१९८|
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org