SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ११४ षष्ठं पर्व । ततस्तस्य सुतो जातः कपिकेतुरभिख्यया । श्रीप्रभा कामिनी यस्य बभूव गुणधारिणी ॥१९९॥ ततो विक्रमसंपन्नं स तं वीक्ष्य शरीर । राज्यलक्ष्म्यां समायोज्य निरगाद् गृहबंधनात्॥२०॥ दत्त्वा प्रतिबलाख्याय लक्ष्मी सोपि विनिर्ययो । प्रायशो विषवल्लीव दृष्ट्वा पूर्वैर्नृपद्युतिः ॥२०१॥ पूर्वोपार्जितपुण्यानां पुरुषाणां प्रयत्नतः । संजातासु न लक्ष्मीषु भावः संजायते महान् ॥२०२।। यथैव ताः समुत्पन्नास्तेषामल्पप्रयत्नतः । तथैव त्यजतामेषां पीडा तासु न जायते ॥ २०३॥ तथा कथंचिदासाद्य संतो विषयजं सुखं । तेषु निर्वेदमागत्य वांच्छंति परमं पदं ॥ २०४॥ यत्नोपकरणैः साध्यमात्मायत्तं निरंतरं । महदं तेन निर्मुक्तं सुखं तत्को न वांच्छति ॥ २०५॥ सुतः प्रतिबलस्यापि गगनानंदसंज्ञितः । तस्यापि खेचरानंदस्तस्यापि गिरिनंदनः ।। २०६॥ एवं वानरकेतूनां वंशे संख्याविवर्जिताः । आत्मीयैः कर्मभिः प्राप्ताः स्वर्ग मोक्षं च मानवाः २०७ वंशानुसरणच्छायामात्रमेतत्प्रकीर्त्यते । नामान्येषां समस्तानां शक्तः कः परिकीर्तितुं ॥ २०८॥ लक्षणं यस्य यल्लोके स तेन परिकीर्त्यते । सेवकः सेवया युक्तः कर्षकः कर्षणात्तथा ॥ २०९ ॥ धानुष्को धनुषो योगाद्धार्मिको धर्मसेवनात् । क्षत्रियः क्षततस्त्राणाबाह्मणो ब्रह्मचर्यतः॥२१०॥ इक्ष्वाकवो यथा चैते नमेश्च विनमेस्तथा । कुले विद्याधरा जाता विद्याधरणयोगतः ॥ २११ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy