________________
पद्मपुराणम् ।
११२
षष्ठ पर्व । ततोऽसावब्रवीत्केन विवाहे मम चित्रिताः । कपयो विविधाकारा अमी वित्रासकारिणः॥१७३॥ नूनं कश्चिन्ममास्तेस्मिन् जनो मत्सरसंगतः । क्षिप्रमन्विष्वतामेष करोम्यस्य बधं स्वयं ॥१७४॥ ततस्तं कोपगंभीरगुहागहरवर्तिनं । वर्षीयांशो महाप्राज्ञा मधुरं मंत्रिणोऽब्रुवन् ॥ १७५ ॥ तात नास्मिन् जनः कोपि विद्वेष्टा तव विद्यते । त्वयि वा यस्य विद्वेषः कुतस्तस्यास्ति जीवितं॥ स त्वं भव प्रसन्नात्मा श्रूयतामत्र कारणं । विवाहमंगले न्यस्ता यतः प्लवगपंक्तयः॥ १७७ ॥ अन्वये भवतामासीच्छ्रीकंठो नाम विश्रुतः । येनेदं नाकसंकाशं सृष्टं किष्कुपुरोत्तमं ॥ १७८ ॥ सकलस्यास्य देशस्य विविधाकारभाजिनः । अभवत्स नृपः स्रष्टा प्रपंचः कर्मणामिव ।। १७९ ॥ यस्याद्यापि वनांतेषु लतागृहसुखस्थिताः । गुणान् गायंति किन्नयः स्थानकं प्राप्य किन्नरात्१८० चंचलत्वसमुद्भूतमयशो येन शोधितं । स्थिरप्रकृतिना लक्ष्म्या वासवोपमशक्तिना ॥ १८१॥ स एतान्.प्रथमं दृष्ट्वा वानरानत्र रूपिणः । मानुषाकारसंयुक्तान् जगाम किल विस्मयं ॥१८२॥ रेमे च मुदितोमीभिः समं विविधचेष्टितैः । मृष्टाशनादिभिश्वामी नितातं सुस्थिताः कृताः १८३ ततः प्रभृति ये जाताः कुले तस्य महायुतेः । तस्य भक्त्या रतिं तेऽपि चक्रुरेभिनरोत्तमाः॥१८४॥ युष्माकं पूर्वजैर्यस्मादमी मंगलवस्तुषु । प्रकल्पिताः ततस्तेपि मंगले सनिधापिता ॥ १८५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org