________________
१११
पद्मपुराणम् ।
षष्ठं पर्व । सुरेंद्रं वीक्ष्य पित्रा ते जातस्मरणमीयुषा । इदं कथितमस्माकमिति वृद्धास्तमूचिरे ॥ १६०॥ एतमाख्यानकं श्रुत्वा वज्रकंठोऽभवन्मुनिः । इंद्रायुधप्रभोप्येवं न्यस्य राज्यं शरीरजे ॥ १६१ ॥ तत इंद्रमतो जातो मेरुस्तस्माच्च मंदरः । समीरणगतिस्तस्मात्तस्मादपि रविप्रभः ॥ १६२॥ ततोमरप्रभो जातस्त्रिकुटेंद्रसुतास्य च । परिणेतुं समानीता नाम्ना गुणवती शुभा ॥ १६३ ॥ अथासौ दर्पणच्छाये वेदीसंबंधिभूतले । मणिभिः कल्पितं चित्रं पश्यन्नाश्चर्यकारणं ॥ १६४॥ भ्रमरालीपरिष्वक्तमरविंदं कचिद्धनं । ऐंद्रीवरं वनं चार्द्धपद्मदीवरकं तथा ॥ १६५ ॥ चंचूपात्तमृणालानां हंसानां युगलानि च । क्रौचानां सारसानां च तथान्येषां पतत्रिणां ॥१६६॥ रत्नचूर्णैरतिश्लक्ष्णैः पंचवर्णसमन्वितैः । रचिताखेचरस्त्रीभिः तत्रापश्यत्प्लवंगमान् ॥ १६७ ॥ स तान् दृष्ट्वा परं तोषं जगामांबरगाधिपः । मनोज्ञ प्रायशो रूपं धीरस्थापि मनोहरं ॥ १६८॥ अथ पाणिगृहीतास्य दृष्ट्वा तान् विकृताननान् । प्रत्यंगवेपथु प्राप्ता प्रचलत्सर्वभूषणा ॥१६९ ॥ निःशेषदृश्यविभ्रांततारकाकुललोचना । दर्शयंतीव रोमांचप्रोद्गमाद्देहवद्भयं ॥ १७०॥ स्वेदोदविंदुसंबद्धविसर्पत्तिलकालिका । भीरुरप्यति सच्चेष्टा प्राविशद्भुजपंजरं ॥ १७१ ॥ दृष्ट्वा यान् मुदितः पूर्व तेभ्योऽकुप्यत्पुनर्वरः । कांताभिप्रायसामर्थ्यात्सुरूपमपि नेष्यते ॥१७२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org