________________
पद्मपुराणम् ।
११०
पर्व
पूजां च विविधैः पुष्पैर्धूपैर्गधैश्व हारिभिः । नमस्कारं च शिरसा धरासंसक्तमौलिना ॥ १४७ ॥ ये कृता मंदभाग्येन मया चारुमनोरथाः । कथं ते कर्मभिर्भमा अशुभैः पूर्वसंचितैः ॥ १४८ ॥ अथवा श्रुतमेवासीन्मया मानुषपर्वतं । अतिक्रम्य न गच्छति मानुषा इत्यनेकशः ॥ १४९ ॥ तथापि श्रद्धा तन्मे नितांतं वृद्धियुक्तया । विस्मृतं गंतुमुद्युक्तो यतोस्मिन् स्वल्पशक्तितः १५० तस्मात्करोमि कर्माणि तानि यैरन्यजन्मनि । यातुं नंदीश्वरं द्वीपं गतिर्मे न विहन्यते ॥ १५१ ॥ इति निश्चित्य मनसा न्यस्य राज्यभरं सुते । अभून्महामुनिर्धीरस्त्यक्तसर्वपरिग्रहः || १५२ ।। वज्रकंठस्ततः सार्द्धं चारुण्याश्रयमुत्तमां । भुक्त्वा किष्कुपुरे रम्ये श्रुत्वोपाख्यानकं पितुः ॥ १५३ ॥ ऐश्वर्ये तनयं क्षिप्त्वा प्राप दैगंबरीं क्रियां । कीदृशं तदुपाख्यानमित्युक्तो गणभृज्जगौ ॥ १५४ ॥ afrat भ्रातरावास्तां प्रीतेः स्त्रीभ्यां वियोजितौ । कनीयान्दुर्विधो ज्येष्ठः स्वाफ्तेयी गृहीतवाक् श्रेष्ठिनः संगमादेष प्राप्तः श्रावकतां परां । मृगयाजीविना भ्रात्रा परमं दुःखितोऽभवत् ।। १५६ ।। अलीकस्वाहतस्वामिपुरुषस्य विसर्जनं । परीक्ष्य भ्रातरं प्रीतं ददावस्मै महद्धनं ॥ १५७ ॥ दुष्टांततः स्त्रियं त्यक्त्वा संगीर्यानुजबोधनं । प्रव्रज्यायामभूदिंद्रः कनीयांस्तु शमी मृतः ।। १५८ ।। देवीभूयश्च्युतो जातः श्रीकंठस्तत्प्रबुद्धये । आत्मानं दर्शयनिद्रः श्रीमानंदीश्वरं गतः ॥ १५९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org