________________
पद्मपुराणम् ।
१०९
षष्ठं पर्व ।
गोपुराणि च तुंगानि न्यस्तान्यत्र मरीचिभिः । मणीनां यानि लक्ष्यंत स्थगितानीव सर्वदा १३४ पुरंदरपुराकारे पुरे तस्मिन् चिराय सः । पद्मया सहितो रेमे शच्येव विबुधाधिपः ॥ १३५ ॥ भद्रशालवने याति तथा सौमनसे वने । नंदने वा न तान्यस्य द्रव्याण्यापुर्दुरापतां ।। १३६ ।। कदाचिदथ तत्रासौ तिष्ठन् प्रासादमूर्द्धनि । व्रजंतं वंदनां भक्त्या द्वीपं नंदीश्वरश्रुतिं ॥ १३७ ॥ पाकशासनमैक्षिष्ट सत्रा दैवैश्चतुर्विधैः । मुकुटानां प्रभाजालैः पिशंगितनभस्तलं ।। १३८ ॥ कुर्वतं बधिरं लोकं समस्तं तूर्यनिःस्वनैः । हस्तिभिर्वाजिभिर्हसैर्मेषै रुष्ट्रैर्वृकैर्मृगैः ।। १३९ ॥ अन्यैश्च विविधैर्यानैः परिवगैरधिष्ठितैः । अन्वीयमानं दिव्येन गंधेन व्याप्तविष्टपं ॥ १४० ॥ ततस्तेन श्रुतं पूर्वं मुनिभिः संकथागतं । स्मृतं नंदीश्वरद्वीपं वंदनं स्वर्गवासिनां ॥ १४१ ॥ स्मृत्वा च विबुधैः सार्द्धमकरोद्गमने मतिं । खेचरैश्च समं सर्वैः समारूढो मरुत्पथं ॥ १४२ ॥ स गच्छन्त्रौंचयुक्तेन विमानेन सहांगनः । मानुषोत्तर शैलेन निवारितगतिः कृतः ॥ १४३ ॥ अतिक्रांतांस्ततो दृष्ट्वा मानुषोत्तरपर्वतं । गीर्वाणनिवहान् सर्वान्परमं शोकमागतः ॥ १४४ ॥ परिदेवमथो चक्रे भग्नोत्साहो गतद्युतिः । हा कष्टं क्षुद्रशक्तीनां मनुष्याणां धिगुन्नतिं ॥ १४५ ॥ नंदीश्वरे जिनेंद्राणां प्रतिमानां महत्विषां । अकृत्रिमाणां भावेन करिष्यामीति दर्शनं ॥ १४६ ॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org