________________
पद्मपुराणाम्।
१०८
षष्ठं पर्व । ग्राहयित्वा च तान् किष्कुमारोहद्धतमानसः । ग्रावकूटैलताभिश्च निर्झरैस्तरुभिस्तथा ॥ १२१॥ तत्रापश्यत्स विस्तीर्णा वैषम्यरहितां भुवं । गुप्तां प्रांते महामानैः ग्रावभिः सोन्नतद्रुमैः ॥१२२॥ पुरं तत्र महेच्छेन ख्यातं किष्कुपुराख्यया । निवेशितमरातीनां मानसस्यापि दुर्गमं ॥ १२३ ॥ प्रमाणं योजनान्यस्य चतुर्दश समंततः । त्रिगुणं परिवषेण लेशतश्वाधिकं भवेत् ॥ १२४ ॥ संमुखद्वारविन्यासा मणिकांचनभित्तयः । प्रग्रीवकसमायुक्ता रत्नस्तंभसमुच्छ्रिताः ॥१२५॥ कपोलपाल्युपांतेषु महानीलविनिर्मिताः । रत्नभाभिर्निरस्तस्य ध्वांतस्येवानुकंपिताः ॥१२६ ॥ देहलीपिंडिकाभागं पद्मरागविनिर्मितं । तांबूलेनेवच्छायं धारयंत्यो रदच्छदं ॥ १२७॥ द्वारोपरि समायुक्ता मुक्तादामांशुसंपदाः । हसंत्य इव शेषाणां भवनानां सुरूपतां ॥ १२८॥ शशांकसदृशाकारैर्मणिभिः शिखराहितैः । रजनीष्वपि कुर्वाणा संदेहं रजनीकरे ॥ १२९॥ चंद्रकांतमणिच्छाया कल्पितोदारचंद्रिका । नानारत्नप्रभापंक्तिसंदिग्धोत्तुंगतोरणा ॥ १३०॥ मणिकुट्टिमविन्यस्तरत्नपद्मावलिक्रियाः । पंक्तयस्तत्र गेहानां खेचरैर्विनिवेशिताः ॥ १३१॥ शुष्कसागरविस्तीर्णा मणिकांचनवालुकाः । राजमार्गाः कृतास्तस्मिन्कौटिल्यपरिवर्जिताः॥१३२।। प्राकारस्तत्र विन्यस्तो रत्नच्छायाकृतावृतिः । शिखराप्रैः श्रिया दत् सौधर्ममिव ताइयन् १३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org