________________
पद्मपुराणम् ।
૨૦૦
पर्व
ततः स विहरंस्तस्मिम्वने नंदनसन्निभे । यथेच्छं क्रीडतो पश्यद्वानरान् बहुविभ्रमान् ॥ १०८ ॥ अचिंतयच्च द्वैत सृष्टेरतिविचित्रतां । तिर्यग्योनिगता ह्येते कथं मानुषसन्निभाः ।। १०९ ।। वदनं पाणिपादं च शेषांश्चावयवानमी । दधते मानुषाकारां चेष्टां तेषां च सन्निभां ।। ११० ।। ततस्तैर्महती रंतुं प्रीतिरस्य समुत्थिता । यथास्थिरोप्यसौ राजा नितांतं प्रवणीकृतः ॥ १११ ॥ जगाद च समासन्नान्पुरुषान् वदनेक्षणः । एतानानयतक्षिप्रमितिविस्मितमानसः ॥ ११२ ॥ इत्युक्तैः शतशस्तस्य लवंगा गगनायनैः । उपनीताः प्रमोदेन कृतकेलिकलस्वनाः ॥ ११३ ॥ सुशीलैस्तैरसौ साकं रंतुं प्रववृते नृपः । नर्तयन् तालशब्देन बाहुभ्यां च परामृशन ॥ ११४ ॥ वीक्ष्यमाणः सितान् दंतान् दाडिमीपुष्पलोहिते । अवटीटे मुखे तेषां भास्वत्कांचनतारके ११५ यूकापयननं पश्यन्विनयेन परस्परं । प्रेम्णा च कलहं रम्यं कृतरवोत्कारनिःस्वनं ॥ ११६ ॥ शालिशूकसमच्छायान् मृदिमातिशयान्वितान् । विधूतान् मृदुवातेन केशान् सीमंतभाजिनः ११७ कर्णान् विदूषकासक्त श्रवणाकारधारिणः । नितांत कोमल श्लक्ष्णानचलद्वपुषां स्पृशन् ॥ ११८ ॥ विलोमानि नयलोमान्युदरे मुष्टिमायिनि । उत्क्षिपंश्च भ्रुवोपांग देशान् रेखावतस्तथा ॥ ११९ ॥ ततस्ते तेन बहवः पुरुषाणां समर्पिताः । मृष्टाशनादिभिः कर्तुं पोषणं रतिहेतवः ॥ १२० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org