________________
पद्मपुराणम् ।
१०६
प्रगुणाः कांडदेशेषु विस्तीर्णाः स्कंधबंधने । उपरिच्छत्रसंकाशा घनपल्लवराशयः ।। ९५ ।। शाखाभिः सुप्रकाशाभिर्नताभिः कुसुमोत्करैः । फलैश्च सरसाः स्वादैः प्राप्ताः संतानमुत्तमं ॥ ९६ ॥ नात्यंतमुन्नतिं याता न च याता निखर्वतां । अनायासांगनाप्राप्यप्रसून फलपल्लवाः ।। ९७ ।। स्तवकस्तनरम्याभिर्मृगनेत्राभिरादरात् । आलिंगिताः सुवल्लीभिश्चलपल्लवपाणिभिः ॥ ९८ ॥ परस्परसमुल्लापं कुर्वाणा इव पक्षिणां । मनोहरेण नादेन गायंत इव षट्पदैः ॥ ९९ ॥ केचिच्छंखदलच्छायाः केचिद्धेमसमत्विषः । केचित्पंकज संकाशाः केचिद्वैडूर्यसन्निभाः ।। १०० ।। एवं नानाविधास्तस्मिन् देशा विविधपादपैः । मंडिता यान्समालोक्य स्वर्गभूरपि नेक्ष्यते १०१ जीवं जीवकयुग्मानां व्यक्तवाचां समं शुकैः । आलापः सारिकाभिश्च तस्मिन्नद्भुतकारणं ।। १०२ ।। ततो नानातरुच्छाया मंडलस्थेषु हारिषु । रत्नकांचनदेहेषु पुष्पामोदानुलेपिषु ॥ १०३ ॥ शिलातलेषु विश्रब्धं निविष्टः सेनया समं । करणीयं च निःशेषं स चक्रे वपुषः सुखं ॥ १०४ ॥ ततो नानाप्रसूनानां हंससारसनादिनां । विमलोदकपूर्णानां सरसां मीनकंपिनां ॥ १०५ ॥ किरतां पुष्पनिकरं तरूणां च महत्त्विषां । जयशब्दमिवोद्दातं कुर्वतां पक्षिनिःस्वनैः ॥ १०६ ॥ नानारत्नचितानां च भूभागानां सुशोभया । युक्तं भ्रमति सद्वीपमितश्चेतश्च तं सुखी ॥ १०७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org