________________
पर्व
पद्मपुराणम् ।
तस्य योग्या गुणैः कन्या रूपेण च कुलेन च । समानयोः समायोगं करोतु विधिरिष्यतां ॥ ४३ ॥ न चास्ति कारणं किंचित्सेनयोः संक्षये कृते । स्वभाव एष कन्यानां यत्परागारसेवनं ॥ ४४ ॥ दूतो यावद्ब्रवीत्येवं तावद्द्ती समागता । पद्मया प्रेषिता तस्य दुहित्रेदमभाषत ।। ४५ ।। ब्रवीति देव पदं कृत्वा चरणवंदनं । स्वयं ते गदितुं शक्ता त्रपया नेति नागता ॥ ४६ ॥ तात स्वल्पापि नास्त्यत्र श्रीकंठस्यापराधिता । मया कर्मानुभावेन स्वयमेव प्रचोदितः ॥ ४७ ॥ यतः सत्कुलजातानां गतिरेषैव योषितां । विमुच्यैनमतोऽन्यस्य नरस्य नियमो मम ॥ ४८ ॥ इति विज्ञापितो दृत्या चिन्तामेतामसौ श्रितः । किं कर्तव्यं विमूढेन चेतसा विक्लवीकृतः ॥ ४९ ॥ श्रद्धाभिजनिता मुख्या गुणानां वरभाजिनां । तस्मिंश्च संभवत्येषा पक्षं च बलिनं श्रिता ॥ ५० ॥ अभिमानात्तथाप्येनं विनेतुं शक्तिरस्ति मे । स्वयमेव तु कन्यायै रोचते क्रियतेऽत्र किं ॥ ५१ ॥ अभिप्रायं ततस्तस्य ज्ञात्वा ते हर्षनिर्भराः । समं दूत्या गता दूता शशाशुश्च यथोदितं ॥ ५२ ॥ सुताविज्ञापनात्यक्तक्रोधभारोभिमानवान् । पुष्पोत्तरो गतःस्थानमात्मीयं परमार्थवित् ।। ५३ ।। शुक्लयां मार्गशीर्षस्य पक्षतावथ शोभने । मुहूर्ते विधिना वृत्तं पाणिग्रहणमेतयोः ॥ ५४ ॥ इति श्रीकंठमाहेदं प्रीत्यात्यंतमुदारया । प्रेरितः कीर्तिधवलो वचनं कृतनिश्चयं ॥ ५५ ॥
Jain Education International
१०२
For Private & Personal Use Only
www.jainelibrary.org