________________
पद्मपुराणम् ।
१०३
वैरिणो बहवः संति विजयार्द्धगिरौ तव । अप्रमत्ततया कालं कियंतं गामयिष्यसि ।। ५६ ।। अतस्तिष्ठ त्वमत्रैव रम्ये रत्नालयांतरे । निजाभिरुचिते स्थाने स्वेच्छया कृतचेष्टितः ।। ५७ ।। पर्याप्तोतिपरित्यक्तुं न च त्वां मम मानसं । मत्प्रीतिवागुरां छित्वा कथं वा त्वं गमिष्यसि ॥ ५८ ॥ श्रीकंठमभिधायैवं सचिवं निजमब्रवीत् । पितामह क्रमायातमानंदाख्यं महामति ॥ ५९ ॥ सारासारं त्वया दृष्टं मदीयानां चिरं पुरं । उद्विश्यतामतः सारं श्रीकंठायात्र यत्पुरं ॥ ६० ॥ इत्युक्तः सचिवः प्राह सितेन हृदयस्थितं । कूर्चेन स्वामिनं भक्त्या चामरेणेव वीजयन् ॥ ६१ ॥ नरेंद्र तव नास्त्येव पुरं यन्न मनोहरं । तथापि स्वयमन्विष्य गृह्णातु रुचिदर्शनं ॥ ६२ ॥ मध्येसागरमेतस्मिन् द्वीपाः संत्यतिभूरयः । कल्पद्रुमसमाकारैः पादपैर्व्याप्त दिग्मुखाः ॥ ६३ ॥ आचिता विविधैरत्नैस्तुंग श्रृंगा महौजसः । गिरयो येषु देवानां संति क्रीडनहेतवः ॥ ६४ ॥ भीमातिभीमदाक्षिण्यात्ते चान्यैरपि वः कुले । अनुज्ञाताः सुरैः सर्वैः पूर्वमित्येवमागमः ||६५ || पुराणि तेषु रम्याणि संति कांचनसद्मभिः । संपूर्णानि महारत्नैः करदष्टदिवाकरैः ॥ ६६ ॥ संध्याकारो मनोल्हादः सुवेलः कांचनो हरिः । योधनो जलविध्वानो हंसद्वीपो भरक्षमः ||६७ || अर्द्धस्वर्गोत्कटावर्तो वैघटो रोधनो मलः । कांतः स्फुटत्तरोरत्नद्वीपस्तोयावलीसरः ॥ ६८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org