________________
पद्मपुराणम्।
१०१
षष्ठं पर्व। असिकुंतादिभिः शस्त्रैविकरालं महारवं । स्थानभ्रंशमिवागच्छद्धलं खेचरसंगमात् ॥ ३०॥ वाजिभिर्वायुरहोभिर्गजैश्च जलदोपमैः । विमानश्च महामानैः सिंहैश्च प्रचलत्सटैः ॥ ३१ ॥ दृष्टोत्तरां दिशं व्याप्तां विहस्य क्रोधमिश्रितं । सचिवानां समादेशं कीर्तिशुक्लो युधे ददौ॥३२॥ अकार्येण ततः स्वेन श्रीकंठो यंत्रपानतः । कीर्तिशुभ्रमिदं वाक्यं जगाद त्वरयान्वितं ॥३३॥ एतं बंधुजनं रक्ष त्वं मदीयमिहाधुना । करोमि निर्जितं यावत् प्रतिपक्ष तवाश्रयात् ॥ ३४॥ एवमुक्तो जगादासौ वचनं नयसंगतं । तवायुक्तमिदं वक्तुं प्राप्य मां भीतिभेदनं ॥ ३५॥ यदि नामैष नो साम्ना शमं यास्यति दुर्जनः । ततः पश्य प्रविष्टोयं मृत्योर्वकं मदीरितः॥३६॥ स्थापयित्वेति विश्रब्धं प्रियायाः सोदरं नृपः । उत्कृष्टवयसो धीरो दूतान् द्रुतमजीगमत् ॥३७॥ उपयुपरि ते गत्वा क्रमेणेदं वभाषिरे । पुष्पोत्तरं महाप्राज्ञा मधुरालापकोविदाः ॥३८॥ पुष्पोत्तर वदत्येतद्भवंतं कीर्तिनिर्मलः । अस्मद्वदनविन्यस्तैः पदैरादरसंगतैः ॥३९॥ महाकुलसमुत्पन्नो भवान् विमलचेष्टितः । सर्वसिन् जगति ख्यातिं गतः शास्त्रार्थकोविदः॥४०॥ आगता गोचरं का ते न मर्यादा महामते । कर्णजाहे निधीयेत यास्माभिरधुना तव ॥४१॥ श्रीकंठोपि कुले जातः शशांककरनिर्मले । वित्तवान् विनयोपेतः कांतः सर्वकलान्वितः ॥४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org