________________
६. अर्थापत्तिप्रामाण्य-सिद्धिः अध्यक्षवत्परोक्षोऽपि नार्थोऽप्रामाण्यसाधकः । 'स.विशेषण हेतुश्च तन्नाप्रामाण्यसाधकः ।। १८ ।। हेतोस्तत्सूचिता दृष्टा बुद्धा(द्धानां) वचसीति चेत् । तथापि दोषतः सा स्यादन्वय-व्यतिरेकतः ।। १६ ।। ततोऽप्रयोजको' हेतुरविनाभाव-हानितः ।। पुरुषत्वादिवद्धतोविपक्षणाविरोधतः ।। २० ।। ततः प्रध्वस्त-दोषत्वादर्हद्वाक्यं प्रमा भवेत् । पुवाक्त्वेऽपि, न चान्येषां दुष्ट वाक्त्वस्य साधनात् ॥ २१॥
इति भगवदहत एव सर्वज्ञत्वसिद्धिः ॥८॥
[६. अर्थापत्तिप्रामाण्य-सिद्धिः ] अथोपत्तिः प्रमाणं न, तया सर्वविदः कथम् । सिद्धिश्चेत् , तत्प्रमात्वं हि स्यान्मीमांसक-सम्मतम् ।।१।। किन्चानुमानमेवेयमापत्तिरसत्यपि । दृष्टान्ते न हि दृष्टान्तः प्रमाणास्तित्व-साधने ॥२॥ * इष्ट-साधनतः सन्ति प्रमाणानीत्यनुमानतः । साध्यते च तदस्तित्वमविनाभावभावतः ॥३॥ अप्रमाणान हीष्ठाप्तिरनिष्टाप्तेश्च सम्भवात्। कल्पितान्न ततः सा स्याटिक दाहः कल्पिताग्नितः ॥ ४॥
१ अतीन्द्रियार्थत्वे सति पुवात्वादिति पूर्वोक्तः ।
२ साध्याप्रसाधकः अन्यथानुपपन्नत्वशून्य इत्यर्थः । ३ दोषयुक्त वचनस्य । ४ अद्वैतवादिनो (शून्याद्वैतवादिनो)ऽपि प्रमाणानि सन्ति, इष्टानिष्टसाधनदूषणान्यथानुपपत्तेरिति भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org