________________
७६ वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे प्रथमाध्ययनं. मिहास्मिन् लोके एकेपामाख्यातं । किं पुनस्तैराख्यातमित्याह । देवउत्तेति । देवेन वप्तः क तोदेवोप्तोदेवपुत्रोवायं लोकः । ब्रह्मणा उप्तोब्रह्मणा कृतोवायं लोकश्त्यपरे वदंतीति ॥ ॥५॥ तथा ईश्वरेण कृतोलोकः । अपरे वदंति प्रधानादिकतोलोकः । सत्वरजस्तमोगुणा नां साम्यावस्था प्रकतिः सैव प्रधानशब्दवाच्या । धादिशब्दान्नियतिकृतोलोकश्त्यन्ये । लोकोजीवाजीवसमायुक्तः सुरयकुःखसमन्वितश्च ॥ ६ ॥ तथा स्वयंनूर्विसुरन्योवा सचै काकी रतिं न लनते ततोन्या शक्तिः समुत्पन्ना तदनंतरं जगत्सृष्टिरनूदिति महर्षिणा न तं । ततः स्वयंवा लोकं निष्पाद्यातिसंसारनयात् यमाख्योमारयतीतिमारोव्यधायि । तेन मारेण संस्तुता कता माया तया मायया च लोको नियते । नच तत्त्वतोजीवस्य मृतिरस्त्यतोमायैषा तेन लोकोऽशाश्वतइति गम्यते ॥ ७ ॥ तथा ब्राह्मणाविजातयः श्रमणास्त्रिदंडिप्रमुखाएके अंडेन कृतमंडळतं अंडाळातं जगदादुर्वदंति । ब्रह्मणांडं क ते ततोविश्वं जात । एवं कृते जगति यसौ ब्रह्मा तत्त्वं पदार्थसमूहमकार्षीत् कृतवान् ते च ब्राह्मणाद्याः परमार्थाननिझाएवं मृषा वदति ॥ ७ ॥
॥टीका-सांप्रतमपराज्ञानिमतोपप्रदर्शनायाह । (णमन्नतुअन्नाणमित्यादि)। इद मिति वदयमाणं ।तुशब्दः पूर्वेन्यो विशेषणार्थः। धज्ञानमिति मोहविजंजणमिहास्मिन् लो के एकेषां न सर्वेषामाख्यातमनिप्रायः।किंपुनस्तदारख्यातमिति तदाह ।देवेनोप्तोदेवोप्तः कर्ष केणेव बीजवपनं कृत्वा निष्पादितोयं लोकश्त्यर्थः। देवैर्वा गुप्तोर दितोदेवगुप्तोदेवपुत्रोवेत्या दिकमझानमिति । तथा ब्रह्मणानप्तोब्रह्मोप्तोयंलोकश्त्यर्थः । परे एवं व्यवस्थिताः । तथा हि। तेषामयमन्युपगमः।ब्रह्मा जगत्पितामहः सचैकएव जगदवासीत्तेनच प्रजापतयः सृष्टा स्तैश्च क्रमेणैतत्सकलं जगदिति । तथेश्वरेण कृतोयं लोकः। एवमेके ईश्वरकारकायनिदधति प्रमाणयंति वा । सर्वमिदं विमत्यधिकरणनावोपपन्नं नतु नुवनकरणादिकं धर्मित्वेनोपादी यते।बुद्धिमत्कारणपूर्वकमिति साध्योधर्मः। संस्थानविशेषवत्त्वादिति हेतुः । यथा घटादिरि ति दृष्टांतोयं । यद्यत्संस्थान विशेषवत्तत्तद्बुद्धिमत्करणपूर्वकं दृष्टं । यथा देवकुलकूपादिसं स्थानविशेषवच्च मकराकरनदीधराधरधराशरीरकरणादिकं विवादगोचरापन्न मितिातस्माद दिमत्कारणपूर्वकं । यश्च समस्तस्यास्य जगतः कर्ता ससामान्य पुरुषोन नवतीत्यसावीश्वर ति। तथा सर्वमिदंतनुनुवनकरणादिकं धर्मित्वेनोपादीयते बुद्धिमत्कारणपूर्वकमिति।साध्यो धर्मःकार्यत्वाद्घटादिवत् तथा स्थित्वा प्रवृत्तेर्वा वास्यादिवदिति। तथाऽपरेप्रतिपन्नायथा। प्रधानादिकतोलोकः । सत्वरजस्तमसां साम्यावस्था प्रकृतिः साच पुरुषार्थ प्रवर्तते । आदिग्र हणाच्च प्ररुतेर्महान् ततोहंकारस्तस्माच गणः षोडशकस्तस्मादपि षोडशकात्पंचन्यः पंच महाभूतानीत्यादिकया प्रक्रियया सृष्टिर्नवतीति । यदि वा आदिग्रहणात्वनावादिकं गृह्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org