________________
सप्तभङ्गीप्रभा
रूपेण चाऽसत्त्वं तेन सत्त्वमेव स्यात्, न त्वसत्त्वमिति परस्परविषयगमनलक्षणो व्यतिकरोऽपि निरस्तः । येन रूपेण सत्त्वं तेनाऽसत्त्वमेव स्यादित्यत्र परोऽपि न किञ्चित्प्रमाणमुपदर्शयितुं समर्थः । तथा सति तद्रूपस्य सत्त्वावच्छेदकत्वं न भवेत्, किन्त्वन्यदेवेति प्रमाणगोचरत्वादीदृशो व्यतिकरो दोषतास्पदमेव न स्यादिति ।
___ एकत्र धर्मिणि विरुद्धनानाधर्मप्रकारकज्ञानं संशय इति लक्षणे एकत्र वृक्षे विभिन्नावच्छेदेन कपिसंयोगतदभावप्रकारकज्ञानस्य प्रमात्मकस्य संशयत्वं मा प्रसाक्षीदित्येतदर्थं विरुद्धत्वस्य नानाधर्मविशेषणत्वं परेणाऽपि स्वीक्रियत इति धर्मविशेषणतया संसर्गतया वा विरोधभानस्याऽऽवश्यकत्वम् । विरोधभाने चाऽव्याप्यवृत्तित्वज्ञानं प्रतिबन्धकमिति तदभावस्य प्रतिबन्धकाभावविधया कारणत्वम् । स्यात्पदेन च कथञ्चिदर्थकेनाऽव्याप्यवृत्तित्वमेव धर्मेऽवभासत इति कार्यसहभावेन कारणीभूतस्य प्रतिबन्धकाभावस्याऽभावादेव सप्तभङ्गीजन्यज्ञाने विरोधभानस्याऽभावे तन्नियतस्य संशयत्वस्याऽप्यनवकाशः । यन्मते समुच्चयात् संशयस्य वैलक्षण्योपपत्तये प्रकारताद्वयनिरूपितैकविशेष्यताया अभ्युपगमः, तन्मतेऽप्येकत्र द्वयमिति रीत्या जायमानज्ञानाद् वैलक्षण्योपपत्तये संशये विरोधभानमवश्यमङ्गीकार्यम् । यदि चैकत्रद्वयमिति रीत्या जायमानज्ञाने प्रकारताद्वयनिरूपितैकैव विशेष्यता, संशये तु विशेष्यताद्वयं, तयोरवच्छेद्यावच्छेदकभावस्याऽभेदस्य वा स्वीकारात् समुच्चयाद् वैलक्षण्यमिति विभाव्यते, तदा सप्तानां भङ्गानामेकवाक्यतोपपत्तये सप्तभङ्गीजन्यबोधस्यैकत्र द्वयमिति रीत्यैव स्वीकरणीयतया समुच्चयात्मतैव वा स्वातन्त्र्येण स्वीकरणीयतयोभयथाऽपि न संशयत्वप्राप्तिः । सप्तभङ्गीतः सप्तधर्मप्रकारकबोधस्योपपादितत्वेनाऽप्रतिपत्तिस्तु शङ्कितुमप्यशक्या । विरोधादीनां सप्तानामपि दोषाणामभावेऽनेकान्तात्मकस्य वस्तुनः प्रमाणसिद्धस्याऽप्यभाव इति को नाम सचेता ब्रूयाद् ? इति दोषकणसम्पर्काकलङ्किता सप्तभङ्गी प्रमाणसाम्राज्यमर्हतीति सिद्धम् ।
दोषाः सन्तु सहस्रशः सुमहताऽऽयासेन सङ्गुम्फिता, एकान्तागमतत्परैर्मतिवरैः स्याद्वादमार्ग परैः । सिद्ध्या ते तु तिरस्कृता विमलया स्याद्वादमानं विना, यन्मिथ्यात्वगुहां विशन्ति तदलं दुर्नीतिसचेष्टितम् ।।१।। स्याद्वादागममर्मविद्भिरमलन्यायव्रजोल्लासकैभङ्गः सप्तभिरिष्टपद्धतिगता ये सिद्धिमाभेजिरे । ते दुर्णीतिकदर्थनैकनिपुणा दोषास्तु कर्तुं कथं, स्याद्वादं निजसिद्धिदक्षममलं दक्षा निजस्याऽऽस्पदम् ।।२।। ये ये मानपथं प्रयान्ति विषयाः सन्नीतिसन्दर्शितास्ते सर्वेप्रतिधर्ममेव नियताः सप्तप्रकारैर्यतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org