________________
सप्तभङ्गप्रभा
Jain Education International
तस्मात् सप्तभिरेव युक्तिनिपुणा भङ्गैरनेकान्तत - स्तानर्थान् प्रतिपादयन्ति कृतिनो मार्गस्ततोऽयं वरः ||३||
यतो भवति सर्वथा परिचय मितार्थव्रजे, परीक्षणविधेः कलाऽप्युदयमेति सन्नीतिगा । निसर्गगरिमोन्नताऽप्यतिसुसूक्ष्मसूत्राश्रिता, मुदे भवतु सा सतां जगति सप्तभङ्गीप्रभा ||४|| विधिप्रथनतत्पराऽप्यथ निषेधनिष्ठाङ्गता, प्रमाणतमताङ्गता सकलदेशनातः सतः । सुनीतिवचनत्वतः प्रतिवचोऽप्यमन्दप्रभा, स्थितिं हृदि सदा सतां भजतु सप्तभङ्गीप्रभा ॥ ५॥ परोपकृतिकर्मठा मितिनयप्रथाशिल्पिनो, बुधा इह महीतले यदि वसन्ति शुद्धाशयाः । तदा कथमियं प्रभा न भविताऽमला सर्वथा, विशोधनकलाबलान्मतिमतां सुदृष्टिङ्गता ॥ ६॥ त्यजन्तु मतिवैभवाः परिचितार्थसार्था धिया, इमामुपहन्तु वा निविडमत्सराधीश्वराः । परे गजनिमीलिकां विरचयन्तु वाऽस्यां बुधास्तथाऽपि सरलान् शिशून् प्रतिफलिष्यतीयं ध्रुवम् ||७||
श्रुतार्थमननाय वा मम भवेदियं सर्वथा,
जिनप्रवरपूजनं भवतु वाड्मयं वा वरम् । अनल्पनयगुम्फितं वचनमत्र प्राचां श्रिता, सुसेवनपराऽथवा भवतु सप्तभङ्गीप्रभा ||८|| गुरोर्गुणगणास्पदात् प्रथितवृद्धिन्द्राभिधाद्, मुनेः किमपि यन्मया कलितमर्थतत्त्वं धिया । तदेव मननान्वयान्मितिनयादराभ्यासतः, पचेलिमदशाङ्गतं समभवत् प्रभेयं स्फुटम् ||९||
For Private & Personal Use Only
९३
www.jainelibrary.org