________________
सप्तभङ्गीप्रभा
अस्तित्वादिगुणप्रधानभजनां स्वीकृत्य सर्वार्थगां,'
यामाश्रित्य विजृम्भते मतिमतां स्याद्वादिनां भारती । जिज्ञासानिकरं निरस्य विशदामातन्वती सद्धियं
विज्ञानां मितिनीतिभावसुभगां तां सप्तभङ्गी वुवे ।।५।। इह हि तत्त्वजिज्ञासूनां निराकाङ्क्षार्थप्रतिपत्तये शब्द एव प्रमाणेषु प्रागल्भ्यमावहति । स च स्यादस्त्येव घट: १, स्यान्नास्त्येव घटः २, स्यादस्त्येव स्यान्नास्त्येव च घटः ३, स्यादवक्तव्य एव घटः ४, स्यादस्त्येव स्यादवक्तव्य एव च घट: ५, स्यानास्त्येव स्यादवक्तव्य एव च घटः ६, स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्य एव च घट ७, इति वाक्यसप्तकसमाहारस्वरूपसप्तभङ्गीभावमापन्न एव स्याद्वादिप्रयुक्तः प्रतिपाद्यस्य निराकाङ्क्षपरिपूर्णार्थबोधमाधातुं प्रभवति । यतः प्रतिपाद्यस्याऽज्ञानसंशयविपर्ययनिरासार्थमेव वाक्यं प्रयुज्यते, नाऽन्यथा ।
तत्र घटेऽस्तित्वस्वरूपमजानानं प्रति यदि घटोऽस्तीत्येतावन्मात्रं प्रयुज्यते तदाऽपेक्षोक्तेरभावात् ततः सर्वप्रकारेणाऽस्तित्वमेव घटस्य निश्चिनुयात् प्रतिपाद्यः । न च तथाऽस्तित्वं घटे वर्त्तते । तथा सति घटत्वादिस्वरूपेणेव पटत्वादिपररूपेणाऽपि घटस्याऽस्तित्वे घटस्य सर्वात्मकत्वप्रसङ्गः । न हि पटादीनां पटादिस्वरूपता पटत्वादिनाऽस्तित्वमन्तरेणाऽन्या । आपादनं च घटो यदि पटत्वादिनाऽस्तित्ववान् स्यात्, पटाद्यात्मकः स्यात्, पटादिवत् ।
न च, घटोऽस्तीत्यनेन यथा घटत्वादिनाऽस्तित्वं न प्रतिपाद्यते तथा पटत्वादिनाऽस्तित्वमपीति सामान्यतोऽस्तित्वमेव घटस्य तेन निश्चिनुयात् प्रतिपाद्यः । तच्चाऽवाधितमेवेति वाच्यम् ।
यतो घटोऽस्तीत्यनेन घटे सामान्यतोऽस्तित्वस्य ज्ञाने तस्य कथञ्चिदस्तित्व-सर्वथास्तित्वयोः साधारणतया साधारणधर्मज्ञानस्य संशयकारणत्वेन घटः कथञ्चिदस्ति नवेति संशयः स्यात् । संशयस्य च जिज्ञासां प्रति कारणत्वेन जिज्ञासाऽप्यवाधितप्रसरैव । न च स्वस्य जिज्ञासां तदभिलापकप्रश्नवाक्यमन्तरेण प्रतिपाद्यः प्रतिपादकं ज्ञापयितुं शक्नोतीति प्रतिपाद्यस्य प्रश्नः प्रवर्तत एव । प्रश्नेन च तथाविधेन जिज्ञासाविशेषमवगम्य प्रतिपादकस्तादृशमेवोत्तरवाक्यं प्रयोक्तुमर्हति यादृशेन तेनोक्तजिज्ञासाकारणसंशयनिवृत्तिः स्यात् । एवं च घटः स्यादस्त्येवेति प्रथमभङ्गः प्रयोक्तव्यः ।
___ येन रूपेणाऽस्तित्वं तेनैव रूपेण नास्तित्वं मा प्रसाक्षीदिति तन्निवृत्तये एवकारोऽवधारणार्थकः प्रयोक्तव्य एव ।
प्रथमभङ्गेन च कथञ्चिदस्तित्वेऽवधृते कथञ्चिदस्तित्व-सर्वथास्तित्वकोटिकस्य संशयस्योन्मूलनेऽपि कथञ्चिन्नास्तित्व-सर्वथानास्तित्वकोटिकस्य संशयस्याऽऽविर्भावः स्यादेव । अथ कथञ्चिदस्तित्वनिश्चयो यथा संशयनिश्चयसाधारणसर्वथास्तित्वविषयकज्ञानत्वावच्छिन्नं प्रति प्रतिवन्धकस्तथा संशयनिश्चयसाधारणसर्वथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org