SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ॐ अर्हं नमः ॥ श्रीकदम्बगिरितीर्थाधिराजाय नमो नमः ॥ सकललब्धिसम्पन्नाय श्रीगौतमस्वामिने नमो नमः ॥ सर्वतन्त्रस्वतन्त्र-शासनसम्राट् - सूरिचक्रचक्रवर्ति - जगद्गुरु तपागच्छाधिपति - अनेकतीर्थोद्धारक - बालब्रह्मचारि - भट्टारकाचार्य श्रीविजयनेमिसूरीश्वरप्रणीता ॥ सप्तभङ्गीप्रभा (सप्तभङ्गयुपनिषत् ) ॥ योऽनेकान्तार्थजातं करतलफलवत्केवलेनाऽवलोक्य, तीर्थं प्रावर्तयत्स्वं विततमवितथं सर्वनीत्येकगम्यम् । देवेन्द्रादिप्रपूज्यः प्रवितकरुणः क्षिप्तनिःशेषकर्मा, आप्तो वीरः स नोऽव्यात् सततमनुगतान् विघ्नजालं विधूय आप्तव्रातैकगण्या निखिलगुणधरा गौतमाद्या महान्तः, पूर्वाधारा यतीन्द्रा मितिनयघटनालम्पटाः सूरिवर्याः । सर्वेऽप्येते हृदिस्था मम विमलमतिं तत्त्वमार्गेकनिष्ठां, कुर्वन्त्वेषां प्रसादाद् भवतु प्रकरणे मात्र विघ्नप्रचारः येनाऽकारि जनवजो जिनमतश्रद्धां दृढां सूक्तिभि मैत्रीं यत्र परस्परं गुणगणो निर्विघ्नमापद्यत । स श्रीमान् गुरुरत्र वृद्धिविजयो भक्त्याऽतिनम्रे मयि, शिष्ये नेम्यभिधे विवेकचतुरां कुर्यान्मतिं संस्मृतः बह्वर्था प्रतिभङ्गमन्यघटनादक्षा व्यपेक्षोक्तितः, क्वैषा माननयप्रचारचतुरा गीः सप्तभङ्गी प्रभोः । क्वैषा मे मतिरक्षरार्थभजनादक्षाऽतितन्वी यतो, योगः स्यादनयोस्तथाऽपि जयतात् स्याद्वाद एष प्रभोः Jain Education International For Private & Personal Use Only 11911 ॥२॥ 113 11 11811 www.jainelibrary.org
SR No.003636
Book TitleSaptabhangiprabha
Original Sutra AuthorNemisuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy