SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ७४ व्याश्रयमहाकाव्ये [ जयसिंहः] २०. एष क्षपाटेशः स्वयमेव शद्रुः स्वपापैरेव क्षयं यास्यति तथा पतयालुरु(लुक उ)चपदात्पतिष्यति तथा दीर्घतरं शयालुर्मरिष्यति च । "सत्सामीप्ये सद्वद्वा" [५. ४. १.] इति भविष्यत्यपि प्रत्ययाः । कीहक्सन् । जनधारुसेरुजनान्भक्षयन्वघ्नंश्च । इति वेति हेतोर्वा स क्षपाटाधिपो भवद्भिरुपैझ्युपेक्षितः । यतः किंभूतैः । धर्म गृहयालूनि ग्रहणशीलानि श्रद्धालुनि श्रद्धाशीलानि दयालूनि च चित्तानि येषां तैः ॥ मृगयाल्वनिद्रालुचरैरतन्द्रालुभिरस्तु नो यैरिदमप्यबोधि । धिग्वावहिः श्रीस्पृहयाल्वहं दोर्यदु सासहिश्चाचलिपॉपति तम् ॥२१॥ २१. अतन्द्रालुभिर्निरालस्यैर्मृगयाल्वनिद्रालुचरैर्मृगयालवः सकलपृथ्व्याचरणान्वेषणशीला अत एवानिद्रालवो जागरूका ये चरास्तैरस्तु मृतम् । यैश्चरैरिदमपि राक्षसकृतं युष्माकमुपद्रवणमपि नो अबोधि मम न ज्ञापितम् । अथैतस्य दोषस्य मूलकारणं स्वमेव निन्दति । उ हे मुनयोहमेव धिकृतः । कीहक्सन् । श्रीस्पृहयालु विजयलक्ष्म्या अभिलाषुकं दोर्बाहुं वावहिरत्यर्थं धारयिता । यद्यस्मादह तं क्षपाटाधिपं सासहिरशिक्षणेनात्यन्तं सहनशीलोभवम् । किंभूतं तम् । चाचलिपापतिं युष्माकमुपद्रवायात्यर्थं चलनशीलं धाट्यात्यर्थ पौतुकं च ॥ १ ए °यालुनि. २ ए सी डी वहि श्री. ३ ए पाति त. १ ए "विष्यपि. सी डी विभ्येपि. २ सी क्षन्वधशं । इ°. डी क्षन्वधंश । इ'. ३ ए यन्वधंश्च ।। ४ सी डी गृहालू. ५५ सी नि द. ६ ए एव नि. ७ सी म ज्ञा'. ८ बी हं क्ष. ९ ए सी डी क्षणान्नात्य. १० सी तं चा. ११ सी °थ धातु. डी 0 पा. १२ बी पातकं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy