________________
व्याश्रयमहाकाव्ये
[जयसिंहः]
क्रव्यभुजो नु पश्यामि । किमदर्शीरुणं न्वदर्शम् । अत्र "नन्वोर्वा" [१४] इति वा वर्तमाना॥
अस्ति । क्षपामः । अत्र "सति" [१९] इति वर्तमाना ॥ उदयन् । विराजमानः । ब्रुवाणाः । समुदेष्यत् । अत्स्यमानाः । अत्र 'शतृ०" [२०] इत्यादिना शत्रानशौ भविष्यन्तीविपयेथे च स्यसंहितौ ॥ माश्रयन्तः । मा स्तुवानाः । अत्र "तो." [२१] इत्यादिना शत्रानशौ ॥ विद्वान् । विदन् । इत्यत्र "वा वेत्तेः वसुः' [२२] इति वा वसुः ॥ पवमान । यजमान । इत्यत्र “पू०" [२३] इत्यादिना शानः ॥ चुलुकेषु चूलां वहमान ऐभं दलमान आत्मानमशंसमानः । इह धारयन्क्ष्मावलयं स को यः स न पाति सिद्धान्तमधीयतोमान्
॥१४॥ १४. सिद्धान्तमधीयतोकृच्छ्रेण पठतोस्मान्यो न पाति स्म न ररक्ष स इह पृथ्व्यां चुलुकेषु मध्ये चूलां शिखां वहमानोपि । अपिरध्याहार्यः । वोढुंवया अपि बालोपि कः । चौलुक्यो बालोप्यस्मान ररक्षेत्यर्थः । कीटक्सन् । महापुरुषत्वादात्मानमशंसमानोश्लाघनशीलस्तथातिविक्रान्तत्वादैभं गजौघं दलमानो विदारयितुं शक्तोत एव क्ष्मावलयं धारयन्नकृच्छ्रेण पालयन्नित्यर्थः ॥ यदधीयतेमनपि धारयन्ति बत कृच्छ्रतोमी नृप सुन्वदर्हन् । अनयं द्विषंस्ताननयं विधातृन्मनुजानशितॄन्भव तन्निहन्ता ॥१५॥
१५. बत हे नृप सुन्वदर्हन् सुन्वत्सु यजमानेष्वहञ् श्रेष्ठत्वेन पूजाई यद्यस्मादमी अस्मल्लक्षणा जनाः कृच्छ्रतो राक्षसभयात्कप्टेना
१ बी स्ति । क्षिपा. २ बी ध्यन् । अ. ३ ए डी कसु । प. सी वसुः प०. ४ ए यस्सा. सी डी यदयस्मा ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org