________________
[ है० ५.१.११९.] एकादशः सर्गः ।
४३ खरिंधमो नु दुग्धार्थी पश्चात्तापात्करंधमः ।
भुवः करंधयः सन्स्यां त्वयि पाणिंधयः सति ॥ ८३ ॥ ८३. त्वयि सति राज्यधुराधौरेये विद्यमानेपि पाणिंधयो बालकः सन् यदि भुवः करंधयो राजग्राह्यभागग्राही राजाहं स्यां तदा पश्चात्तापाद्राज्यप्रतिपालनानलंभूष्णुत्वाद्युत्थात्किं मया तदा पिता प्रव्रजन्न निवारित इति रूपात्करंधमो हस्तयोर्मर्दकः स्यां यथा दुग्धार्थी दुग्धपानमिच्छन्नरः खरिंधमो गर्दभी दुहन्सन् पश्चात्तापात्करौ मृद्गाति महाकष्टदोह्यत्वादोहनेपि दुग्धस्यातिविरसत्वेनापेयत्वात् ॥
पाणिधमैर्महामात्रैः कुञ्जरैः कूलमुद्रुजैः। कूलमुद्हसिन्धूमिरयैर्गोभिर्वहंलिहैः ॥ ८४ ॥ रथैरभ्रंलिहैहमाबहुंतुदयुगैरपि । द्विषामरंतुदै त्यैस्तिलानां नु तिलंतुदैः ॥ ८५ ॥ तैर्ललाटंतपैः शत्रोर्यशोविधुविधुतुदैः । शर्धजहान्नसंपुष्टैवेगवातमजैर्हयैः ॥ ८६ ॥ दारैरसूर्यपश्यैश्चेरंमदद्युतिभूषणैः ।
अनुग्रंपश्य किं मे चेन्न पश्येयं तवाननम् ॥ ८७॥ ८४-८७. अनुग्रंपश्य सौम्यविलोकक चेत्तवाननमहं न पश्येयं १ सी डी पाकरं . २ ए करिंध. ३ ए धममहा. ४ ए वहलि'. ५ ए द्विपां म. ६ सी तुदैः । तै'. ७ ए डी स्तिलांनां. ८ सी डी धुभू. ९ ए सी डी नुग्रप.
१बी ये त्वयि वि . २ ए तानत्र :: ३ बी इत्यरू. ४ ए मदकः. ५ ए सी डी भी दु. ६ सी डी घोहितेपि. ७ ए अमुग्र. ८ सी डी ग्रं सौ. ९ डीनम.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org