SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ४२ व्याश्रयमहाकाव्ये [ जयसिंहः ] पुनरिति पूर्वोक्तं राज्यं गृहाणेति वचः श्रोता सन्न वरं न श्रेष्ठः । यतः कीदृशम् । तापकृदसुखकरमत एव नाडिंधमं शिराणां संतापकं तथा नाडिंधयं संतापातिरेकोत्पादेन शिराणां ग्रासकम् । एतद्धि वच:श्रवणं पितर्यभक्तिसूचकं तच्चाहं कुर्वाणः श्वादिभ्योपि निकृष्टस्तेपि हि स्वमातापित्रोभक्ताः स्युरित्यर्थः ॥ घटिंधममुष्टिंधमनासिकंधमनित्रपाः । लुभ्यन्ति पितृराज्येतिवातंधयखरिंधयाः ॥ ८१॥ ८१. पितृराज्ये लुभ्यन्ति । के क इत्याह । घटिंधमा दर्दरवादका मुष्टिंधमा मुष्टिवादका भण्डविशेषा एवं नासिकंधमा अपि तद्वन्निस्त्रपा निर्लज्जा नरास्तथा निर्विवेकताद्यतिशयेन वातंधयान्सर्पान्मृगान्वा खरिंधयांश्च गर्दभानतिक्रान्ताश्च ॥ नासिकंधयमुष्टिंधयाँम्बास्तनघटिंधयः।। अहं तेद्यापि शिष्योमि नैतद्वातंधमं वचः ॥ ८२ ॥ ८२. हे ताताद्याप्यहं ते शिष्योनुशास्यः शिक्षणीयोस्मि वर्ते यतो नासिकंधयी स्नेहातिरेकान्मदीयनासाचुम्बिनी मुष्टिंधयी मन्मुंष्टिचुम्बिनी याम्बा माता तस्या यो स्तनौ ताभ्यां घटिंधयो घटतुल्यस्तनपायीत्यर्थः । क्षीरकण्ठ इति वाक्यार्थः । क्षीरकण्ठो हि शिक्षणीयः स्यात् । एतद्वचः शिष्योस्मीति वचनं वाँत इव वातः फल्गुरर्थस्तं धमति वक्ति वातंधर्म नास्ति सत्यमेवेदं वच इत्यर्थः ॥ १ए पाः । तुल्यन्ति. २ ए वातिध°. ३ ए बी सी धया । पि. ४ ए नाशिकं. ५ ए सी यान्धास्त. ६ बी धयाः । १ ए सी कम. २ ए सी तन्वाहं. ३ बी °पि स्व. ४ ए मात्रापि . ५ सी भत्तया स्यु'. ६ डी के इ. ७ ए नाशिकं. ८ सी धयाअ ग डी धयाश्च. ९ ए°यांअ ग°. १० एन्मुष्टिं वुविनी. सी डी 'न्मुष्टिं चु. ११ बी पानीत्य. १२ डी कण्ठो हि. १३ सी डी णीय स्या. १४ ए वाप्त इ°. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy