________________ [है. 7. 4. 102.] विंशः सर्गः। 641 श्रयो भवति समर्थानां पदानां स्यादित्यर्थः / तथा नृपः कुमारपालः सदा समर्थः सर्वशक्तिसंपद्भिः शक्तोभवत् / शब्दश्लेषेणोपमा / केषु सत्सु / ऋषिषु / किंभूतेषु / आघोषत्सु भैमेर्लोकोत्तरैर्विनयादिगुणैरवदातैर्हृतहृदयत्वेनाशिषो ददत्सु / कथमित्याह / हे भूपता३इ भूपते आयुष्मान्भव युष्मान्भो अभिवादय इति कुमारपालाभिवादोत्र गम्यः / “अस्त्रीशूदे" [ 7. 4. 101 ] इत्यादिना प्रत्यभिवादेन प्लुतः / तथा हे सुबुद्धा३य् सुबुद्धे शान्त्या३ इन्द्रियजयेन कृत्वर्षी३नप्यजय३: / सर्वत्रात्र "प्रश्ने च०" [ 7. 4. 98 ] इत्यादिना प्लुतः। तत्तस्मात्केनाप्यजेयानामन्तरङ्गद्विषामपि जयाद्धेतोहे जिष्णा३व् जिष्णो ऊर्ज जगत्रयेपि बलिष्ठो भव / विकल्पेन [ग्य]न्ताश्चरादय इति मताश्रयणान्नान णिच् / तथा हे ऐ४न्दवे अत्राणन्तायूनीज् / हे सोमवंश्य तथा हे चौ४लुक्यचूडामणे जगद्रक्षायै चिरं जय / तथा क्ष्माण्यीकरणान्निजं संवत्सरं प्रवर्तय च / पृथ्वीमनृणीकुर्वन्हि निजनाम्ना संवत्सरं प्रवर्तयतीति स्थितिरिति / / प्रश्ने / सोमेट्पुरी३मकलय३[:] सुमता३३ / आप३ः साधा३उ / तत्र३अभूश्वरकुमारविहार[चैत्य]दृष्ट्या३इ / गूर्जरपुरे३ अगम३[:] पृथा३उ' // अायाम् / भक्तोसि साधा३उ // विचारे / ततो वसामि गिरा३उ किं ते पुरि // प्रत्यभिवादे / आयुष्मान् भव भूपता३इ / अत्र "प्रश्नार्चा०" [102] इत्यादिना संधियोग्यस्य संध्यक्षरस्य प्लुतो भवन्नाकार इदुत्परः प्लुतो भवति / स च प्रत्यासत्या एकारकारयोरिकारपर ओकारौकारयोरुकारपर इति // 1 ए दा सदा स. २सी नेत्यै च. 3 सी जिष्णो. 4 सी "वे ति. 5 सी नृणीक. 6 सी 'यस्व / पृथिवीम. ७सी गिरौ३उत किं, 8 ए काररै. Jain Education International For Private & Personal Use Only www.jainelibrary.org