________________ [ है० 7.4.90.] विंशः सर्गः / भक्तिस्ते मयि यद्वदर्हति विभौ शंभौ तथा मेहति३ .. तद्वेश्माक्षतमात्थ तत्प्रवरमित्यात्थ३ तदामात्य भोः // 12 // 92. भो अमात्य यद्वत्ते मयि विभौ प्रभौ विषये भक्तिरर्हत्युचिता स्यात्तथा मे शंभौ विषये भक्तिरर्हति३ / तस्माद्विशीर्णकेदारभवनोद्धाराय कारूंश्च वर्धक्यादीञ् शिल्पिनो धनं च प्रहिणु३। तथा भृतकान्कर्मकरीन्नेतूंस्तथा भृतकादिचिन्ताकारिणो नायकांश्चायुद्ध प्रयुद्ध / ततश्च तैद्धाम केदारभवनं चान्द्रं वेश्मचिदस्तु चन्द्रप्रासाद इव भवतु चन्द्रभवनं ह्येकरात्रावेव निष्पद्यतेन्यथा पतेत्तद्वच्छीनं निष्पद्यतामित्यर्थः / तथा गान्धिकपुटीचिनायता३म् / यथा गन्धपण्यस्य वणिज औपंधपुटिका क्षणानिष्पद्यत एवं निष्पद्यताम् / तथा भो अमात्य तदा तस्मिन्विवक्षित आवयोः प्रसिद्धे काले तद्वेश्म केदारभवनं त्वमक्षतमभग्नमस्तीत्यात्थावोचः / तदायोगे "स्मे च वर्तमाना" [ 5.2.16 ] इत्यतीतेत्र वर्तमाना। तथा तद्वेश्म तदा प्रवरमनेकरूपकचित्रादिभिः प्रधानमस्तीति त्वमात्थाख्यः। तद्वेश्माक्षतं तत्प्रवरमित्युक्तवन्तममात्यं प्रणिधिभणितियुक्त्या स्वमतात्प्रच्याव्यैवमुपालम्भं चामात्यं प्रति राजोच इति संबन्धः // दस्यो३ दस्यो। हतक हतक३ / अत्र "भर्सने पर्यायेणे" [ 90 ] इति द्विरुक्तिः / तत्र पर्यायेण पूर्वस्यामुत्तरस्यां वोक्तावन्त्यस्वरः प्लुतो वा॥ पक्षे / पाप पाप॥ 1 सीर्णकदा. 2 ए रानेतुं. 3 सीस। त'. 4 सी तद्वासं के. 5 सी यतां / तथा भो आमा. 6 ए निषद्य. 7 ए आचार्याः प्र. 8 सी सिद्धे. 9 ए°ण ति.. 10 ए °स्याप्रवर'. Jain Education International For Private & Personal Use Only www.jainelibrary.org