________________ 632 ___ व्याश्रयमहाकाव्ये [कुमारपालः / केदारप्रासादं विशीर्णं न समाचरय इत्यर्थः / अस्यापि फलमनुभवसीति // तदेवं चौर्याद्यन्यायकारित्वाद्विशीर्णस्य केदारप्र(प्रा)सादस्य साराया अकर्तृत्वाच्च केदारसमीपदेशस्थं खसराज संतात्मानं निन्दन्विशीर्णकेदारप्रासादोद्धारायामात्यमाह // समन्यासे खण्डालये देव आस्ते प्रायश्चित्तं देवोपदिश्योक्रियां च / तचाचर्यासं तद्विशेषं च राजे त्यन्तात्वोचे वाग्भटामात्यमेवम् // 91 // 91. राजा वाग्भटामात्यं भग्नकेदारप्रासादोद्धारायैवं वक्ष्यमाणरीत्योचे / किं कृत्वा / भक्त्यतिशयादन्तश्चित्ते ध्यात्वा / किमित्याह / अहं समन्यासे तिष्ठामि / देवः केदारः खण्डालये विशीर्णप्रासाद आस्ते / तस्माद्धे देव केदार तद्विषयकृतैवंविधाविनयोत्थमहापापविशुद्ध्यर्थं मम प्रायश्चित्तं विशोधि तपश्चरणं क्रियां च स्वर्णदानादिकं कार्य चोपदिश्यात् / आदिशेस्त(त्त)तश्च तच्च प्रायश्चित्तं च तद्विशेषं च प्रायश्चित्तविशेषं स्वर्णदानादिकं चाहमाचर्यासमनुष्ठेयासमिति // वैश्व. देवी छन्दः // यदूचे तदाह // कारूंश्च प्रहिणु३ धनं च भूतकानायुश्व नेतृ॑स्तथा चान्द्रं वेश्म चिदस्तु गान्धिकपुटीचिजायतां धाम त३त् / - 1 सी क्रियायां. 2 ए राज्येत्य'. 3 ए °स्तु गन्धि. 4 सी तत्. 1 ए रस्य. 2 सी °स्य सरा'. 3 सी अक्षतत्वा. 4 सी संत्यज्यात्मा'. 5 सीमात्ममेवं भ'. 6 सी सादमाचर्यास'. 7 ए श्याम् / आ. 8 सी ह / कोलं. Jain Education International For Private & Personal Use Only www.jainelibrary.org