________________ 628 व्याश्रयमहाकाव्ये [ कुमारपालः] , रहस्ये / द्वन्द्वं निर्दिशामः // मर्यादोक्तौ / आचतुरं ये द्वन्द्वम् // व्युक्रान्तौ / द्वन्द्वं विभिन्नाः // यज्ञपात्रप्रयोगे। द्वन्द्वं यज्ञपात्राणि प्रयुङ्क्ते / अत्र "रहस्य." [ 83 ] इत्यादिमा द्वन्द्वमिति निपात्यते // इन्द्रवज्राः(वा) // द्वन्द्वं विजित्य शिववैश्रवणौ स्थितस्य वाच्यस्य तेथ न न कुर्म इति स नाहुः / छायां दधुन खलु कालिककालिकां स जातीयबुद्धय उपाददिरे तदाज्ञाम् // 87 // 87. अथ तेमात्या वाच्यस्य सुराजत्वेन युक्तायुक्तं वक्तुं शक्यस्यापि राज्ञः पुरो न न कुर्म इति नाहुः स्म मनसा पीड्यमानत्वेन मृतवित्ताग्रहणाज्ञां नैव कुर्म इति नोचुरित्यर्थः / कीदृशस्य / द्वन्द्वं शिर्ववैश्रवणावत्यन्तं सहचरौ शंभुधनदौ विजित्यैवं परोपकारितोदाराशयत्वादिगुणोत्कर्षेण पराभूय स्थितस्य वर्तमानस्य / ननु राज्ञो मुखदाक्षिण्येनेदं नोक्तं भविष्यति / मनस्यरुच्या तु मुखं कृष्णं कृतं भविष्यति / नेत्याह / काल्येव कालिका कालिकायाः सदृशी कालिककालिका तां मनस्यरुच्या कृष्णां छायां मुखकान्ति च न खलु दधुः / किं तु तदाज्ञामुपाददिरेङ्गीचक्रुः / यतः / सती प्रकारोस्याः सज्जातीयातुच्छत्वेन स्वामिशुभाभिप्रायबहुमानिनीत्वेन च शोभना बुद्धिर्येषां ते // द्वन्द्वं शिववैश्रवणौ / अत्र " लोक० " [84] इत्यादिना द्वन्द्वमिति निपात्यम् // न न कुर्मः / अत्र "आबाधे" [ 85] इति द्विरुक्तिः // १सी द्ववं वि. 2 सी पात्यते / द्व'. ३सी ति चु. नौ ४ए °वत्रैव. 5 एणं भ. 6 एलिकः का. Jain Education International For Private & Personal Use Only www.jainelibrary.org