________________ [ है० 7.4.82.] विंशः सर्गः। 627 85. अहो अमात्या मदाये मदीय आयपदे ये द्रम्मादीनां लक्षाः स्युस्ते द्वन्द्वं द्वाभ्यां द्वाभ्यां लक्षाभ्यां हीना न्यूनाः सन्तु / अथ वा मदाये याः कोट्यो भवन्ति ता द्वाभ्यां द्वाभ्यां कोटिभ्यां निम्ना हीना(नाः) सन्तु / तु परमसूनोः परासोवित्तं भवद्भिर्न ग्राह्यम् / एतद्वन्द्व रहस्यं भवद्भ्यो निर्दिशामो वदामः // शालिनी // ये द्वन्द्वमत्राचतुरं त एव द्वन्द्वं विभिन्ना मृतवित्तलुब्धाः / द्वन्द्वं प्रयुक्ते य उ यज्ञपात्राण्यन्यः समस्तेन तदसि शासि // 86 // 86. उ हे अमात्या अत्र भुव्याचतुर्थ्यः " शरदादेः " [7. 3. 92 ] इत्यति आचतुरं ये द्वन्द्वं मैथुनाय द्वौ द्वौ भवन्ति माता पुत्रेण पौत्रेण प्रपौत्रेण तत्पुत्रेण च मैथुनं यातीत्यर्थः / मृतवित्तलुब्धा मृतद्रव्याभिलाषुका नरास्त एव पशव एव द्वन्द्वं विभिन्ना द्वैराश्येन पृथग्भूताः / एके मृतवित्तलुब्धा मृतद्रव्यग्रहणस्य निन्द्यतमकार्यस्य करणेन निर्विवेकत्वाच्छृङ्गपुच्छपरिभ्रष्टा नृरूपाः पशवोपरे तु शृङ्गपुच्छादिमन्त इत्यर्थः / अन्यो मृतवित्तलुब्धेभ्योपरः पुनस्तेन तुल्यो यो याज्ञिको द्वन्द्वं यज्ञपात्राणि प्रयुते यज्ञक्रियासु द्वे द्वे यज्ञपात्रे व्यापारयतीत्यर्थः / मृतवित्तानभिलाषी तु पुण्यपात्रत्वाच्छाध्यतमत्वाच्च याज्ञिकतुल्यः स्यादित्यर्थः / तत्तस्माद्धेतोरस्म्यहं शास्मि मृतवित्तं भवद्भिर्न ग्राह्यमित्यादिशामि // द्वन्द्व हीनाः / इति "द्वन्द्वं वा" [82 ] इति वा निपात्यम् / पक्षे / द्वाभ्यां द्वाभ्यां निन्नाः॥ 1 सीज्ञपत्रा. 2 ए ण्यन्य स. ... १सी भ्यां ल. 2 ए °भ्यां को'. 3 ए °मः // ये. 4 सी रहं. 5 सी भ्यां रभिम्ना / र. Jain Education International For Private & Personal Use Only www.jainelibrary.org