________________ 617 [ है. 7.4.61.] विंशः सर्गः / सौपर्वयुक्सौकरसमशिष्यशैलालशैखण्डजितस्तुतोष।... साब्रह्मचारोस्य जनो गुणेनाश्मोपि द्रवेत्कीदृगनाश्मनो यः॥७२॥ 72. अस्य मत्पुत्रस्य सब्रह्मचारिणामयं साब्रह्मचारो जनः सहाध्यायिलोको गुणेन महाविद्वत्तादिना तुतोष / किंभूतस्य / सुपर्वणोपत्यं सौपर्वस्तेन युजो युक्ता ये सौकरसद्मशिष्यशैलालशैखण्डजितः / सूकरसद्मापत्यस्य च्छात्रश्च शिलालिशिखण्डिनोरपत्ये च तान्वैदिकद्विजाजयति यस्तस्य / यद्वा किमत्र चित्रं यदस्य गुणेन साब्रह्मचारो जनस्तुतोष / यतो गुणेन कृत्वाश्मोप्यश्मविकारवदतिकठिनहृदयः खलादिरपीत्यर्थः / द्रवेदाहृदयी स्याद्यस्त्वनाश्मनो नाश्मविकारतुल्यः स्नेहार्द्रचित्तः सज्जनमित्रादिः स कीदृक्सन्नितरां द्रुत एवेत्यर्थः // औक्षान् / इत्यत्र “उक्ष्णो लुक्" [56] इत्यन्त्यस्वरादेर्लुक् // ब्राह्म / इत्यत्र "ब्रह्मणः" [57 ] इति लुक् / / ब्राह्मी / इत्यत्र “जातो" [58 ] इति लुक् // पूर्वेण सिद्धे जातावनपत्य एवेति नियमार्थ वचनम् / तेनोत्तरसूत्रेणापत्ये लुग्न। ब्रह्मणोपत्यानि ब्राह्मणान् // सो(सौ)पाम / इत्यत्र "अवर्मणो नो(मनो)पत्ये" [59] इति लुक् / अवर्मण इति किम् / चाक्रवर्मणः // हैतनामः हैतनामनः / अत्र “हितनाम्नो वा" [ 60 ] इति वा लुक् // मैधावः / अत्र “नोपदस्य" [61 ] इत्यादिना लुक् // अपद इति किम् / मेधाविरूप्यम् // 1 एप / सत्र. 2 ए नाश्वानो. सी नामनेय // अ. १बी स्य ब्र. 2 बी रिण्याम'. 3 सी द्वादः कि. 4 सी यी साध्यस्त्वनाश्मना ना. 5 वी त्रादि स. 6 ए दिः की. 7 सी क् / अवर्भण इति कि. 8 एत्य इति लुक्. 9 बी सी धाव / अ. Jain Education International For Private & Personal Use Only www.jainelibrary.org