SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ४० व्याश्रयमहाकाव्ये [जयसिंहः] __७६. अर्थिभ्यो याचकेभ्यः प्रदत्ताब्धेः पतिंवरा कन्या लक्ष्मीर्येन स तथा संस्तातः स्वयं राज्यं करोतु । यतः शत्रुतपशसही कौचिनृपौ धनंजयोर्जुनस्तैः समः । बलप्रतापादिप्रकर्षणाद्यापि राज्यधुराधरणक्षम इत्यर्थः ॥ रथंतरकलालाप वसुंधरापुरंदर । ब्रूहि तन्मे यदागस्त्वां भगंदर इवादुनोत् ॥ ७७ ॥ ७७. स्पष्टः । किं तु हे रथंतरकैलालाप रथं तरत्युल्लङ्घते रथेन वा तरत्युल्लङ्घते पाठकं रथस्थैर्य न पठ्यत इत्यर्थः । रथंतरं साम तद्वन्मधुरध्वने । आगोपराधः । भगंदगे रोगविशेषः ॥ [सर्वकषः ।] सर्वसहः । अन्न “सर्वात्सहश्च" [१११] इति खः ॥ विश्वंभरा । पतिंवरा । धनंजय । रथंतर । शत्रुतप । बलिंदम । शत्रुसह । इत्यत्र "भृव०" [११२] इत्यादिना खः ॥ केचित्तु रथेन तरति रथंतरं सामेत्यकर्मणोपीच्छन्ति ॥ वसुंधरा । इत्यत्र “धारेधर्च" [११३] इति खः-धर(र) इत्यादेशश्च ॥ पुरंदरभगंदरशब्दौ “पुरंदर०" [११४] इत्यादिना निपात्यौ ॥ योग्यमानी ममायोग्यमन्यस्य स्नेहतोसि चेत् । राजवाचंयम तथापीत्याज्ञा मेङ्गमेजया ॥ ७८ ॥ ७८. राजा सन्वाचंयम ऋषिस्तदा मनसा ऋषीभूतत्वात् । हे राजवाचंयमासि त्वं स्नेहतोपत्यस्नेहाचेद्यद्यप्ययोग्यंमन्यस्य राज्यानहमात्मानं मन्यमानस्य मम योग्यमानी मां राज्ययोग्यं मन्यसे तथापी १ ए सी करालाप. २ ए सी डी दरः. ३ डी गस्त्वा भ. ४ ए राजा वा. १ए तपःसर्बुसहै कौ. सी तपःसवू. २ सी °म: धनाप्र. डीमः धनप्र. ३ बी सी करालाप. ४ ए सर्वोत्स. ५ ए °जयः ।. ६ ए सी °त्य वृवृ०. ७ वी 'वृत्या०. ८ ए धंच इ०. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy