________________
[है० ५.१.१११.] एकादशः सर्गः । वाचमूचे । नखपचयवागूरपि पथ्यत्वाद्रोगच्छित्स्यात् । यतः कीदृक् । शान्त्येन्द्रियजयेनाल्पंपचमितंपचान् । अल्पशब्दोत्र परिमाणविशेषवाचकः । अल्पं पचतो मितं स्तोकं पचतश्च गाढतपोनिष्ठानपीत्यर्थः । ऋषीञ् जयन् ॥
अल्पंपच । मितंपचान् । नखंपच । इत्यत्र "परिमाण." [१०९] इत्यादिना खः ॥
कूलंकषेशगम्भीर वक्तुं नाहं त्वयीश्वरः ।
न करीषकेषा वात्या प्रभुरभ्रंकषे गिरौ ॥ ७४ ॥ ७४. हे कूलंकषेशगम्भीर समुद्रवदलब्धमध्य त्वयि विषये नाहं वक्तुमीश्वरः समुद्रगम्भीरत्वात्तव । दृष्टान्तमाह । अभ्रंकषेत्युच्चैस्त्वाव्योमस्पृशि गिरौ विषये करीषंका वात्याल्पत्वाच्छागण(?)रजउँच्छालिका वात्या वातौधो न प्रभुश्चालनाद्यर्थं न समर्थः स्यात् ॥
कूलंकषा । अभ्रंकषे । करीषंकपा । इत्यत्र “कूलाभ्र०" [११०] इत्यादिना खः॥
को मां सर्वकपः प्राहाभक्तं विश्वंभरापते । सर्वसहोपि यत्त्वं भूवलिंदमैवमादिशः ॥ ७५ ॥ ७५. स्पष्टः । किं तु सर्वंकषः खलः । हे भूबलिंदम भूमौ पालकत्वाद्विष्णो । एवं राज्यं गृहाणेति दुष्टादेशप्रकारेण ॥
शत्रुतपशसहधनंजयसमः स्वयम् । करोतु राज्यं तातोर्थिप्रदत्ताब्धिपतिंवरः ॥ ७६ ॥
१ ए त्वमीश्व. २ ए सी कथा वा. ३ ए कप प्रा. - १ बी पचाय. २ ए सी यनये. ३ ए पचितो. ४ ए °स्त्वाव्योमस्पशि. ५ सी डी मस्पर्शि गि. ६ बी पाल्प. ७ °उत्सालि . ८ सी घो नु प्र. ९ ए किं तुः स.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org