SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ ५४२ व्याश्रयमहाकाव्ये [कुमारपालः] किंराजानम् । अत्र "न किमः क्षेपे" [७० ] इति वक्ष्यमाणः समासान्तोत् न स्यात् ॥ अराजानौ । अत्र "न" [७१ ] इत्यादिना समासान्तो न ॥ सुराजन् । अतिराजन् । अत्र "पूजा." [ ७२ ] इत्यादिना टात्प्राक् समासान्तो न ॥ आसन्नबहुभिः । अत्र "बहोर्ड" [ ७३ ] इति डप्रसङ्गे डः कच्च न ॥ अस्यसि । इत्यत्र “ईच्युद्धे" [ ७४ ] इतीच् ॥ द्विदण्डि । द्विमुशलि । इत्येतो "द्विदण्ड्यादेः(दिः)" [७५] इति निपात्यौ ॥ तस्योक्तचैरिवत्विग्भिः श्रीपुरैः वेडिभिर्भटैः। प्रा(आ?)रेभेसद्धलं होतुं समीपपथरोधिभिः ॥ १०१ ॥ १०१. उक्त●रुच्चारितमन्त्रविशेषैः सद्भिर्ऋत्विम्भिर्यथा हव्यं होतुमारभ्यते तथा तस्य भटैबल्लालस्य वीरैरस्मद्वलं होतुमारेभे हन्तुमारब्धमित्यर्थः । किंभूतैः सद्भिः । श्रीपुरैः श्रियश्चतुरङ्गबलविक्रमादिलक्ष्म्याः पूर्भिनगरैर्निवासैरित्यर्थः । तथा वेडिभिः सिंहनावद्भिस्तथा संगता आपो यत्र तत्समीपं तडागादि तस्य ये पन्थानः प्रवेशमार्गास्तद्रोधिभिर्जलस्थानानि रुद्धवा स्थितैः। यद्वा रुद्धवा(?) समीपान्निकटान्पथो रुन्धानरस्मत्सैन्यस्य निकटमागतैरित्यर्थः ॥ ऋच् । उक्तः ॥ पुर। श्रीपुरैः ॥ पथिन् । समीपपथ ॥ अप् । समीप । इत्यत्र "ऋक्पूर०" [५६ ] इत्यादिनी-अत् ॥ .. १ सी अत्ररा'. २ ए जानं । अ. ३ ए °न् । अं. ४ सी होड ई. ५ए °सङ्ग डा. ६ ए इच् । द्वि. ७ ए °ण्ड्यादिभिः इनिपा. ८सी कलावि. ९ सीर्थः । यथा. १० सी नि रदस्थि. ११ सी उ.:. १२ सी 'नाक ॥ ना. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy