________________
[ है० ७.३.७०.]
एकोनविंशः सर्गः।
५४१
९९. हे सुराजन्पूजितनृप भैमे तो सामन्तौ शालावत्यौर्णावत्याभ्यां वैदभृत्येन च शालावत ऊर्णावतो विदभृतश्चापत्यैरीरितौ बलालपक्षे भवनाय प्रेरितो सन्तौ किंराजानं निन्द्यं नृपं बल्लालमीयतुराश्रितौ । यतोराजानौ । नबत्राल्पार्थो निन्दार्थो वा । स्वामिनि दूढत्वादल्पौ तुच्छौ निन्द्यौ वा राजानौ । निषेधार्थ एव वा नञ् । राजार्हचरित्ररहितावित्यर्थः ॥
सौ(सो)तिराजंस्तवानीके आसन्नबहुभिर्नृपः। कुर्वन्नागादस्यसि द्विदण्डि द्विमुशलि क्षणात् ॥१०० ॥ १००. हेतिराजन्पूजितनृप स बल्लालस्तवानीके क्षणादागात् । कीहक्सन् । आसन्ना बहवो भटगजाद्या येषां तैर्नृपैः कृत्वा कुर्वन् । किम् । अस्यस्यसिभिरसिभिः प्रहृत्य युद्धं वृत्तं तथा द्वौ दण्डौ द्वौ मुशलौ चास्मिन्प्रहरणे द्विदण्डि द्विमुशलि च ॥
पशुभिः । रक्षोभिः । अत्रै “पर्धा देरण्" [६६ ] इत्यण् स च द्विः ॥ दामनिभिः । औलपिभिः । अत्र "दामन्यादेरीयः" [६७ ] इतीयः स च द्विः ॥
श्रीमतैः । शामीवत्य । शैखावत्येन । शालावत्यं । और्णावत्याभ्याम् । वैदभृत्येन । अ(आ?)भिजित्याभ्याम् । इत्यत्र "श्रुमत् ०" [६८ ] इत्यादिना स्वार्थे यञ् स च द्भिः ॥ श्रीमच्छब्दादपि केचिदिच्छन्ति । त्रैमतैः ॥
- १ सी के क्ष.
१ ए यौर्णव. २ सी तो वेद. ३ सी नौ । नान्यत्रा . ४ ए वा टञ्. ५ सी स्यसि आसिभिः प्र. ६ सी तं यथा. ७ सी त्र पार्था'. ८ सी द्रिः । शा. ९ एत्य । ऊर्णा'. १० एत्य श्रु. ११ सी °च्छब्दमपि. १२ सी "न्ति । औम'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org