________________
[ है० ७.३.५७.] एकोनविंशः सर्गः। दृक् । छिन्नतमकोनत्यन्तं छिन्नतमस्तदैवागमनेनातिश्रान्तत्वादनपगतो राजदर्शने गमनावधेः पूर्णत्वेन स्वस्थचित्तत्वाञ्च किंचिदपगतश्चेत्यर्थः । श्रमो मार्गखेदो यस्य सः । तथा छिन्नकमनत्यन्तं छिन्नं स्फुटितमिसर्थः । यद्वस्त्रं तद्विभर्ति यः सः । तथा रजसा भिन्नतरकोनत्यन्तं भिन्नतरः किंचिद्व्याप्त उद्धूलितजङ्घ इत्यर्थः ।।
छिन्नक । तमबाद्यन्तात् क्तात् । छिन्नतमकः(क)। भिन्नतरकः । अन्न "क्तात्" [५६ ] इत्यादिना कम् ॥
द्वाःस्थेन साम्यनत्यन्तं प्रविष्टः सामिवारितः ।
सो|क्तोर्द्धमनत्यन्तं निवेदिततमः प्रभोः ॥९२ ॥ ९२. स पुमान् द्वाःस्थेन प्रभो:मेरत्यौत्सुक्यादिवशेनावन्तितः पुमानित्यर्धमनत्यन्तं मधुरवचसा निवेदिततमोतिशयेन विज्ञप्तः । कीदृक् । साम्यर्धमनत्यन्तं प्रविष्टः सन् द्वाःस्थेन सामिवारितः प्रविशनर्धमनत्यन्तं निषिद्धस्तथा|क्तो राज्ञो निवेदनेत्यन्तमुत्सुकत्वेन संपूर्णवाक्यस्योक्तावशक्तत्वात्क्षणं द्वारदेश एवेत्यर्धमनत्यन्तमुक्तः ॥
भूपतिः साम्यनत्यन्तं निर्भुगतरया भ्रुवा। सांराविणं व्यावभाषीं विनापि तमवीविशत् ॥ ९३ ॥ ९३. भूपतिः साम्यनत्यन्तं निर्भुनतरया प्रवेशसंज्ञार्थमनतिशयेन वक्रीकृतया भ्रवा कृत्वा तं पुमांसमवीविशत्प्रवेशितवान् । कथम् । विनापि । किम् । सांराविणं समन्ताद्भवणं पुमांसं शीघ्रं प्रवेशयेति
१ सी न्तं प्रावृष्टः स्यामि'. २ ए तमः. ३ सी तमोति'.
१ सी गमाव". २ सी तथ'. ३ ए °न्नं स्फटि'. ४ ए तरकः. ५ ए तमकः. ६ सी नस्यन्तं. ७ सी न्तं न विषि. ८ सी मुक्तं ॥ भू. ९ सी द्रव्यणं. १० ए शयति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org