________________
[है० ७.३.३०.] एकोनविंशः सर्गः।
५२९ श्राम्यतकि । सर्वक । विश्विकाः । अत्र “त्यादि." [ २९ ] इत्यादिनान्त्यास्वरात्पूर्वोक् ॥
यद्युष्मकासु मयका लभ्यं न त्वरमकासु तत् । अर्ग्यतां त्वयकेत्युक्त्वा श्यालोङ्गुष्ठे दधार तम् ॥ ७६ ॥ ७६. स्पष्टः । किं तु युष्मकासु ह्रस्वेषु युष्मासु विषये । एवं सर्वत्र । तं वरम् ॥
अयं युवकयो वकयो त्यः कृतार्थ्यताम् । युवकाभ्यों नावकाभ्यां सुहृवन्द्वैरगाद्यदः ॥ ७७ ॥ ७७. सुहृहन्द्वैर्युगलीभूतै|मिमित्रैरन्योन्यमदोगादि नर्मणोक्तम् । यथा । अयं श्यालो युवकयोर्हस्वयोर्युवयो यो नावकयोस्ततश्चायं युवकाभ्यां कृतार्थ्यतां भृतिदानेन कृत यः क्रियतां नावकाभ्याम् ।।
तूष्णीकां नीचकैः स्थास्नु चित्तादपृथकन्नृपः । श्यालकं नर्मणेत्यूचे देयं भवतकेत्र किम् ॥ ७८ ॥ ७८. स्पष्टः । किं तु तूष्णीकाम् । नीचकैः । अपृथकत् । भवतके। एषु कुत्सितत्वोल्पत्वाज्ञातत्वानि त्रयोप्यर्था भावनीयाः । चित्तादपृथकस्त्रियत्वेन भैमेश्चित्ते वसन्तमित्यर्थः । यद्वा चित्तादभिन्न यथा स्यादेवमूचे दानाभिप्रायेणोवाचेत्यर्थः । श्यालकमल्पं वा केनापि गुणेनीज्ञातं वानुकम्पितं वा झ्यालम् ॥
१सी अर्पकं त्व'. २ बी त्वयंके'. ३ बी भ्यां ताव'. ४ ए नाका. ५ सी स्थातुं चि. ६ बीपः । शाल'. ७ ए मणोत्यू.
१ एम्यतिकि. २ ए सी विश्वकाः. ३ सी 'दिनांक्षरा'. ४ बी तैभेमि'. ५ सी यं शालो. ६ ए योह स्व. ७ बी त्यो व. ८ ए सी कृत्य क्रि. ९ ए अ अथपृक°. १० ए त्वाशा. ११ बी यस्या'. १२ बी सी धः । शाल'. १३ ए मलां वा. १४ बी °णेन शा. १५ ए नामाज्ञांन्तं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org