SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ५२४ ब्याश्रयमहाकाव्ये कुमारपालः ] नकोयमेषामनत्यन्तं छिन्नकश्छिन्नकतमस्तत्तुल्यः कान्दविकश्ववत्सस्पृहं मुहुर्मोदकानामालोकनेन निर्लज्जत्वान्नक्रवर्धिततुल्य इत्यर्थः । अस्माभिः सहास्य कः संबन्धो येनायं निर्लजो मोदकान्वाञ्छतीत्यर्थः । जेमनवेलायां किल प्रधान मोदकादि भोज्यं यादृग्वरो लभते तादृगनुवरोपीयेवं श्यालिकाद्या उपहसन्ति । हास्यवशादेव च बहुरक्ष इत्यादिविशेषणान्यसन्त्यप्यनुवरे लोकैः प्रयुज्यन्ते । एवं वक्ष्यमाणान्यपि ॥ अस्य केशद्वयी दृश्यादेश्यिकाविकवन्मुखे । प्रकृष्टच्छिन्नकस्यानुवरस्यं यावकदृशः ॥ ६८ ॥ ६८. यावकत्यावलक्तवदाचरैन्यौ दृशौ यस्य तस्य रक्ताक्षस्यास्यानुवरस्य मुखे दंष्ट्रिकाप्रदेशे केशद्वयी द्वौ वालौ दृश्यादेश्यिकातिलघुत्वेन कुत्सितेषदपरिसमाप्ता दृश्या यतोनत्यन्तं छिन्नंश्छिन्नको बहूनां मध्ये प्रकृष्टच्छिन्नकस्तस्य दंष्ट्रिकायामतिनिन्धं मुण्डितस्येत्यर्थः । अविकवद्यथाविकस्यच्छागस्य मुखे केशद्वयी दृश्यादेश्यिका स्यात् । मुण्डितश्मश्रुत्वादेवमुपहासः ॥ हरतिरूपम् । चौरसैंपः । अत्र "त्यादेश्व०" [१०] इत्यादिना रूपए ॥ कम्पतेकल्पम् । धत्तेदेश्यम् । बमोदेशीयम् ॥ पद्मकल्पे । वज्रदेश्येन । सीरिदेशीयः। अत्र “अतमबादे०" [११] इत्यादिना कल्पप्देश्यप्देशीयरः ॥ केचिद्देश्यं पितं नेच्छन्ति । तन्मते दृश्यादेश्यिका ॥ १ बी देश्यका . २ ए "स्य मव. १ ए पामेत्य. २ बी °वं शालि'. सी °वं शालका'. ३ ए पस. ४ ए रन्त्यो दृशो य. ५ सी स्यानु. ६ बी द्वौ बालो. ७ सी °देशिका. ८ एका स्यात्. ९सी नको. १० सी रूपं । अ. ११ ए रूपपत् । क. १२ ए देशी'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy