________________
[ हैं.५.१. ९३] एकादशः सर्गः ।
२९ गमाभ्यासमादत्ते सूत्रग्रहः शिक्षायाः पालकाप्यादिगजशिक्षाशास्त्रस्य सूत्रग्रहः ॥
धनुर्धरो दण्डधारः कर्णधारस्तरीमिव ।।
दुष्टाश्वान्कवचहरोवाहयत्स मनोहरः ॥ ५३ ॥ ५३. स्पष्टः । किं तु दण्डधारः कशायष्टिं धारयन्सन्नवाहयाह्यालिकायामभ्रमयत्। कवचहरस्तरुण इत्यर्थः । अत एव मनोहरः। यथा चौराद्युपद्रवरक्षार्थं धनुर्धरः कवचहरश्च कर्णधारो निर्यामको दण्डधारः कूपस्तम्भधारी संस्तरी वेडां समुद्रे वाहयति ॥
स विद्यांशहरः पुष्पाहराणां समदर्शयत् ।
दृप्तेनहारे शक्तिं वां सर्प विषहरीमिव ॥ ५४ ॥ ५४. स कुमारोनहारे वरुणादिदैवतशस्त्रधरेत एव दृप्ते दर्पिष्ठे शत्रौ विषये स्वां शक्ति प्रतिपक्षदैवतास्त्रप्रेरणरूपं विद्याबलं समदर्शयत् । यथा सर्प विषये विषहरी विषहरीति यथार्थाभिधानां मणिं स समदर्शयत् । यतः स पुष्पाहराणां पुष्पाहरणशीलानां विद्याधराणां विद्यांशहरो विद्यया कृत्वांशहरो गोत्री ॥
धनुर्ग्रहे । दण्डग्रहः । सरुग्रहः। लाङ्गलग्रहः(ह)। अङ्कुशग्रहः । ऋष्टिग्रहः । यष्टिग्रहः । शक्तिग्रहः । तोमरग्रहः । घटग्रहे। "नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्" [न्या० १६. ] इति घटीग्रहाः । अत्र “धनुर्०" [१२] इत्यादिनाच् ॥ अणपीत्येके धनुाह इति चोदाहरन्ति ॥
१ डी सेस्यहा. १ ए सी "भ्यासद. बी भ्यासाद . २ बी डी पालिका. ३ ए शिष्याशा. ४ डी द्वाहालि . ५ ए थे चनु. ६ ए °रः कप. ७ बी री बेडां. बी रे वार. ९बी क्षदेव. १० सी पयं विपहरीति. ११ ए हसाते य. १२ बी पुष्फाहारा. १३ ए °ह: । शरय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org