________________
५०२
व्याश्रयमहाकाव्ये [कुमारपालः] यदितो दक्षिणा रम्यं स्थितैलॊकैस्ततोपि यत् । दक्षिणायागतस्तत्र गुरुरान्नस्य तिष्ठति ॥ २२ ॥ २२. इतः स्थानादक्षिणा दक्षिणस्यां दूरवर्तिन्यां दिशि देशे वा स्थितैर्लोकः कृत्वा यदक्षिणा रम्यं या दक्षिणा दूरा दिग्देशो वा रम्यस्ततोपि दक्षिणस्या दिशो देशाद्वापि परं यद्दक्षिणाहि या दूरा दक्षिणा दिग्देशो वास्ति तत्र दक्षिणाहि दक्षिणस्यां दूरायां दिशि देशे वागत आनस्य गुरुस्तिष्ठति ॥
दक्षिणा रम्यम् । दक्षिणा स्थितैः । दक्षिणाह्यस्ति । दक्षिणाह्यागतः। अत्र "आही दूरे" [ १२० ] इत्याहिप्रत्ययौ ॥
यैः ख्यातमुत्तरा जातैवर्धितैरुत्तराहिँ सत् । तानश्वान्प्राहिणोदानो दातुमुद्वाहमङ्गले ॥ २३ ॥ २३. उत्तरोत्तरस्यां दिशि देशे वा केकाणे जातेयः केकाणाश्वैः कृत्वोत्तरोत्तरा दिग्देशो वा ख्यातं तथोत्तरायुत्तरस्यां दिशि देशे वा वर्धितैर्वृद्धिं नीतैः कृत्वोत्तराहि सच्छोभनम् । उत्तरार्धं स्पष्टम् ॥
उत्तरा ख्यातम् । उत्तरा जातैः । उत्तराहि सत् । उत्तराहि वर्धितैः । अत्र "वोत्तरात्" [ १२१] इत्याही वा ॥ पक्षोदाहरणानि प्राक्तनान्येव ॥
जातैर्विन्ध्यादेः पूर्वेणोत्तरपश्चादपाक्तथा । पश्चाच्छाध्यं च यैस्तान्स प्राहिणोत्त्वत्कृते गजान् ॥२४॥ २४. स आन्नस्त्वत्कृते तान्गजान्प्राहिणोत् । भद्रजातीयत्वेन यैः - १ ए णात्याग'. २ ए तैर. ३ बी हि तत्. ४ ए त् । न. ५ बी "श्चाछाध्य. ... १ ए दक्षणाहि दक्षण'. २ ए °णाहस्ति. ३ बी सी यादिप्र. ४ ए यौ। यै ख्या'. सी यौ । खैः ख्या'. ५ ए काणे जा. ६ बी सी त्तरा. ७ ए 'शो व्याख्या. ८ प हि व. ९ एक्षोह.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org