SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ (है० ७.२.११९.] एकोनविंशः सर्गः। ५०१ त्यर्थः । अधरात्पाताले यातो गतः पुनः शेषाहिरेवाभूदित्यर्थः । तथा यत्कीर्त्या तहयमधरात्पश्चाच्च पातालमर्त्यलोकावित्यर्थः । रम्यमोजसा बलेन कृत्वा तं शेषाहिं शेषतुल्यबलमित्यर्थः । त्वामान्नो वेत्ति ॥ परस्तात् अवरस्तादशम् । परस्तादवरस्तादायातु । परस्तादवरस्ताद्यातु । इत्यत्र “पर०" [११६ ] इत्यादिना स्तात् ॥ . दक्षिणत उत्तरतो वशम् । दक्षिणत उत्तरत आयातु । दक्षिणत उत्तरतो यातु । परतोवरतो वश्यम् । परतोवरतः सकाशाद्यातः । परतोवरतो यातः । अत्र "दक्षिण" [ ११७ ] इत्यादिना तस् ॥ अधरात् पश्चाद्गम्यम् । अधरात्पश्चादेतः । अधरात्पश्चाद्यातः । दक्षिणादुत्राद्वश्यम् । दक्षिणादुत्तरात्सकाशाद्यातः । दक्षिणादुत्तराद्यातः । अत्र "अधर०" [ ११८ ] इत्यादिना-आत् ॥ वसता दक्षिणा रम्यं येन तस्य मुनेः समम् । मात्रा सह गुरुं प्रैषीदानस्ते दातुमात्मजाम् ॥ २१ ॥ २१. आन्नस्ते तुभ्यमात्मजां दातुं मात्रा +पुत्रीजनन्या सह गुरुं पुरोहितं प्रेषीत् । कीदृशम् । तस्य मुनेरगॅस्त्यस्य प्रभावादिना समं तुल्यम् । येन मुनिना कृत्वा दक्षिणा दक्षिणा दिग्देशो वा रम्यं पवित्रम् । यतो दक्षिणा दक्षिणस्यां दिशि देशे वा वसता तिष्ठता ।। दक्षिणा रम्यम् । दक्षिणा वसता । इत्यत्र “वा दक्षिणात्०" [ ११९] इत्यादिना-आ वा ॥ पक्षोदाहरणानि प्राक्तनान्येव ज्ञेयानि ॥ १ बी सी गुरप्रै'. १ए 'श्चान्वपा. २ ए °णतो । उ'. ३ ए °त्तरायातः । अत्र. ४ बी गस्तस्य. ५ सी क्षिण'. ६ एम् । याद. + पञ्चाशत्तमश्लोकस्थेन पितामहीसममित्यनेन विरोधं परिहतु स्वजनन्या इत्यावश्यकमिति भाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy