SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ ४९८ व्याश्रयमहाकाव्ये [कुमारपालः] त्तान्तेन कृत्वा द्वयमुपर्यधश्च रम्यमस्तु । युवयोः संबद्धां युन्मैत्रीवाता स्वर्गे पाताले च खेचराः कुर्वन्त्वित्यर्थः ॥ पुरस्तादुदयत्यंशाववस्ताच्च त्वयि प्रभो।। अर्घाञ्जलिं करोत्वानो रम्यमस्तु द्वयं च तत् ॥ १६ ॥ १६. हे प्रभो आन्नः पुरस्तात्पूर्वस्यां दिशि देशे वावस्ताच्चावरस्यां दिशि देशे वापि गूर्जरत्रायां च रविं त्वां चोद्दिश्यार्धाञ्जलिं पूजार्थमञ्जलिं करोतु । क सति । अंशौ रवौ । कीदृशे। पुरस्तात्पूर्वस्या दिशो देशात्कालाद्वा प्रभातात्सकाशादुदयत्युदयं गच्छति । तथा त्वयि च । कीदृशे । अवस्तादवरस्याः पश्चिमाया दिशो देशाद्वा गूर्जरत्रायाः सकाशादुदयति वृद्धिं गच्छति । ततश्चार्यत्वात्तहयं पुरस्तादवस्ताच्च रम्यमस्तु ॥ योधो याति पुरोवश्च येन रम्यं त्रयं च तत् । तसान्नित्योदयोन्योसि भावान्मोहात्तु नार्चितः ॥१७॥ १७. यो भास्वानधोधरस्या दिशो देशाद्वा समुद्रमध्यात्सकाशादुदयकाले पुरः पूर्वस्यां दिशि देशे वा याति । तथा यः पुरः पूर्वस्या दिशो देशाद्वा सकाशादपराह्नेवोवरस्यां पश्चिमायां दिशि देशे वा याति तथा योवश्व पश्चिमाया दिशो देशाद्वा सकाशादस्तकालेधोब्धिमध्ये याति । अस्तकाले हि रविः पश्चिमाब्धिमध्ये मज्जति प्रातश्च पूर्वाब्धिमध्यादुदेतीति रूढिः । तथा येन च भास्वता तत्रयमधः पुरोवश्व १ ए भासान्मो'. २ बी नाचितः. १बी शेव. २ ए शाकालाद्वायप्र. ३ सी द्वा समुद्र. ४ बी रस्यां दि. ५ ए ध्यासका. ६ बीवस्यां दि. ७ सी शादस्त. ८ बी व प. ९ ए यास्ति । अं. १० ए°माध्यमज. ११ सी 'धिचम'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy