SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ [है० ७.२.११२.] एकोनविंशः सर्गः। ४९७ यापि सन्त्वित्यर्थः । क्रियाव्ययविशेषण इति वचनाद्रम्य( मणीय ? )मित्यत्र क्लीबता । एवमग्रेपि ॥ अत इत्यत्र “आधादिभ्यः" [ ७. २. ८४ ] इति षष्ठ्यर्थे तस् । " रिरिष्टात् " [२. २. ८२ ] इत्यादिना रियोगे षध्या विधानात् ॥ उपरिष्टाद्गते सिद्धेधस्तादिन्द्रस्त्वमागमः । द्वयं युवाभ्यां भोक्तव्यमान्नस्तज्ज्ञातवान्न हि ॥ १४ ॥ १४. हे भैमे त्वमुप(त्वमिन्द्र उप?)रिष्टादूर्ध्वाया दिशो देशाद्वा वर्गात्सकाशादधस्तादधरस्यां दिशि देशे वा मर्त्यलोक आगम आगतः । क सति । सिद्धे जयसिंहेधस्तान्मर्त्यलोकात्सकाशादुपरिष्टास्वर्गे गते प्राप्ते । ततश्च द्वयमुपरिष्टादधस्ताञ्च स्वर्गों मर्त्यलोकश्च युवाभ्यां भोक्तव्यमुपभोग्यम् । तत्तु स्वर्गः सिद्धेन भोक्तव्यो मर्त्यलोकश्च त्वयेत्येतदानो मर्त्यलोकोपभोगवाञ्छया त्वया सहैवं युद्धकरणेन न हि नैव ज्ञातवान् ॥ खेचराः कौतुकं द्रष्टुं ये यान्त्यायान्त्युपर्यधः । अस्तु रम्यं द्वयं तेषां युन्मैत्रीवार्तयाद्य वाम् ॥ १५ ॥ १५. ये खेचरा विद्याधराद्याः कौतुकं रणकुतूहलं द्रष्टुं यान्ति । क्क । उपर्यु/यां दिशि देशे वा स्वर्गे तथाधश्चाधरस्यां दिशि देशे वा पाताले च । तथा य आयान्ति मर्त्यलोक आगच्छन्ति । कुतः । उपर्यधश्च स्वर्गात्पातालाच्च । कौतुकं द्रष्टुं लोकत्रयेपि ये भ्राम्यन्तीत्यर्थः । तेषां खेचराणामद्यास्मिन्दिने वां युवयोर्युन्मैत्रीवार्तया रणसख्ययोर्च १ सी यावि. २ सी स् । अरिष्टा. ३ ए टादिना. ४ ए तश्चाद्वमु. ५ वी °गों मृत्युलो'. ६ ए °न हि. ७ बी वा पा. ८ सी °लाद्वा । को. ९ बी योन्मे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy