SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ [ है० ७.२ ८८.] अष्टादशः सर्गः। ४८५ * ९८. ते चौलुक्यरूप्या आन्नचराश्च राणकास्तदा युद्धकाले द्राग्यशस्तः पराक्रमोत्थयशसा कृत्वा न नात्यगृह्यन्त किं त्वन्यानतिक्रम्य यशसा गृहीता अतियशस्विनः संभाविता इत्यर्थः । यद्वा । अतिशयेन यशसा गृहीता इत्यर्थः । यतो मिथः प्रहृतेः प्रति प्रहारं दायिनः । तथासुतः प्रत्यसून्दायिनः । आधयेत्र णिन् । प्रहृतेरसुत इत्यत्र “यतः प्रतिनिधि०" [ २. २. ७२ ] इत्यादिना पञ्चमी । विपक्षाणां प्रहृतिं प्राणांश्च गृहीत्वा स्वस्य प्रहारं प्राणांश्च ऋणमिव दतः। प्राणनिरपेक्षं युध्यमाना इत्यर्थः । किंभूताः। वृत्ततः शौर्यवृत्त्यादिना चरित्रेण कृत्वाव्यथिता अप्यचलिता अप्यभीता अपि वा यावती स्वस्वामिनं परिहत्य रिपुपक्षे स्थितास्तावता वृत्ततः स्वस्वामिनि चुक्पदातितारूपेण निकृष्टाँचारेण कृत्वा प्रहीणाः सदाचाराद्भष्टास्तथा वृत्ततः पापाश्च पापिष्ठाश्चात एव वृत्ततः क्षिप्ता निन्दिताः ।। वृत्ततः क्षिप्ताः । यशस्तो न नात्यगृह्यन्त । वृत्ततोव्यथिताः । अत्र "क्षेप." [ ८५ ] इत्यादिना तसुः ॥ वृत्ततः पापाः । वृत्ततः प्रहीणाः । अत्र "पाप०" [८६] इत्यादिना तसुः ।। प्रहारं प्रहृतेः प्रति दायिनः । असूनसुतः प्रति दायिनः । अन्न "प्रतिना." [ ८७ ] इत्यादिना वा तसुः ॥ उपजातिः ॥ मानाद्रिमूर्नोनवरोहिणौ नृपौ वीर्यादहीनौ प्रसभं प्रजहतुः । निर्यन्न तूणान्न च चापतः शरोलक्ष्यापतन्नेव कुतोपि सर्वतः॥९९॥ १ सी रोहणौ. २ ए तः शिरों'. १ बी शश्विनः. २ ए °तिय. ३ सी यथा मि'. ४ सी ते प्र. ५ बी °ण्येन्य णि'. ६ ए °मी । प्र०. ७ ए त्वा स्तस्य. सी त्वा तस्य. ८ सी त्तयः शौ'. ९ए अच'. १० ए अथाभी . ११ ता स्वं स्वा. १२ ए वृत्तेन स्व॰सी वृत्तयः स्व. १३ एटा प्र. १४ बी यन्ते । वृ'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy