________________
४७८
व्याश्रयमहाकाव्ये [ कुमारपालः] गुण्याम् । गुणवत् । हिम्य । हैमवती । इत्यन्त्र “गुणादिभ्यो यः" [५३] इति यो
मतुश्च ॥
रूप्यवः । रूप्य । इत्यत्र “रूपात्" [५४] इत्यादिना यः ॥ कथं रूपी । ब्रीह्यादित्वाद्भविष्यति ॥ पौर्णमासी । इत्यत्रै “पूर्णमासोण्" [५५] इत्यण् ॥ केकिरवं छन्दः ॥ आनोर्थ गौशतिकनैष्कसंहस्रिकैः स्वै
भृत्यैः सनैष्कशतिकैः सहगौत्रिकैश्च । संभूर्यं सर्वधनिभिश्च रुषान्धको नु
तं देवमैकगविकं पिदधेनवृष्टया ॥ ८८॥ ८८. अथान्नो रुषा कृत्वान्धको नु कुत्सितोन्ध इवात्यन्तं कोपाविष्टः सन्नित्यर्थः। तं चौलुक्यमस्त्रवृष्टया बाणवर्षणेन पिदधे । किं कृत्वा । स्वैर्भूत्यैः सह संभूय मिलित्वा । किंभूतैः । गो(गौ)शतिकनैष्कसहस्रिकैः कैश्चिद्गोशतयुक्तैः कैश्चिच्च निष्कसहस्रयुक्तैः । निष्कोष्टोत्तरं शतं स्वर्णस्य पलं वा तथा निष्कशतमस्त्येषां सह तैर्य(2) तैः सनैष्कशतिकैस्तथा गोत्रा गोसमूहोस्त्येषां सह तैयें तैः सहगौत्रिकैश्च गोशतादिमद्भिर्देशपालैर्निष्कसहस्रादिप्रभूतजीविकैर्महायोधैश्चेत्यर्थः । तथा सर्वधनमस्त्येषां तैः सर्वधनिभिश्च चतुरङ्गबलोपेतनृपैश्चेत्यर्थः । यथान्धको दैत्यः स्वैभृत्यैः सह संभूयैकगव एंकवृषोस्यास्यैकगविकं देवं रुद्रमस्त्रवृष्टया पिदधे। १ बी °थ गोश. २ ए °सहिनि. ३ बी सी हगोत्रि. ४ ए य संबंध. १ ए त् । है'. २ बी वत्य'. ३ बी रूप । इ. ४ ए °त्र पौर्ण'. ५ ए बी °न्दः । अन्नो'. ६ ए °विष्टा सौ. ७ ए त्यर्थ चौ. ८ए कैः कश्चि'. ९ ए °र्णस्याप. १० बी कत'. ११ सी सहितै'. १२ सी सहितै. १३ बी 'तैर्य तैः. १४ बी सी हगोत्रि. १५ सी त्रिभिश्च. १६ ए द्भिदेश'. सी द्भिर्दश. १७ सी यद्वान्ध. १८ ए स्वैभृत्यैः. १९ ए एषवृ. सी एषो. २० सीस्यास्त्येक. २१ सीधे । गोश.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org