________________
[ है ० ७.२.५२.] अष्टादशः सर्गः। इति तं गदित्वा बहुरूप्यमूल्यं गुणवद्धर्नुहेमवतीपतिर्नु । सशरं व्यधाद्रूप्यपि पौर्णमासीशशिरूप्यवक्रोथ चुलुक्यचन्द्रः ८७
८७. अथानन्तरं रूप्यपीत्यत्रापिभिन्नक्रमे । न केवलमानश्चौलुक्यचन्द्रोपि धनुः सशरं व्यधात् । हैमवतीपतिर्नु हिमवतोपत्यस्य गौर्या भर्ता हरो यथा त्रिपुरदाहादिकाले धनुः सशरं व्यधात् । किं कृत्वा । इत्युक्तरीत्या तमान्नं गदित्वा । कीहक्सन् । पौर्णमास्या यः शशीन्दुस्तद्वद्रूप्यं प्रशस्यरूपान्वितं सौम्यं मुखं यस्य सः । रूप्यपीत्यस्य स्थाने कुत्रापि रुष्यपीति पाठो दृश्यते तदा रुष्यपि रोषेपि सति महापुरुषत्वेनालेक्ष्यकोपविकारत्वात्पौर्णमासीशशिवक्र इति यथास्थानमेवापिर्योज्यः। हरोपि शशिरूप्यवक्रश्चन्द्रकलया रूपवन्मुखः । कीदृशं धनुः । आहतं रूपमस्त्येषां रूप्या दीनारादयः । निघातिकाताडनाद्दीनारादिषु यद्रूपमुत्पद्यते तदाहतं रूपम् । बहवो रूप्या मूल्यं यस्य तत् । यथा(तथा?) गुणवत्प्रशस्यप्रत्यञ्चम् ॥ स्वामि । इत्यत्र "स्वामिन्नीशे" [९] इति मिन् दीर्घश्वास्य ॥ गोमी । इत्यत्र “गोः" [ ५० ] इति मिन् ॥ पूज्य एव मिनमिच्छन्त्येके ॥ ऊर्जस्वी । ऊर्जस्वलेषु । इत्यत्र "ऊर्जा विन०" [५१ ] इत्यादिना विन्वलावसू चान्तः॥
तमिस्राम् । अर्णव । ज्योत्स्ना। इत्येते "तमिस्रा०" [५२ ] इत्यादिना निपात्याः ॥
१ ए नुर्हेम,
१ बी पि भिन्न. २ बी र्ता हारो. ३ सी रूग्यान्वि. ४ ए मुख्यं य”. ५ बी लक्षको'. ६ ए सी पियोज्यः . ७ ए नादीना. ८ ए च । स्वा. ९ सी स्वामिनीशे. १० बी मित्तं से इ. ११ बी ऊज्यों वि . १२ बी 'दि वि. १३ ए सा । अ. १४ बी त्येन्ये त.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org