SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [कुमारपालः] मश्वाभरणादि तद्वन्तश्च ये हयास्तैर्याजियुद्धं तत्र कच्छरैः कण्डूमद्भिस्तथा सदन्तुरेभैरुन्नतदन्तान्वितगजयुक्तैस्तथा रथिरै रथवद्भिस्तथा समेधिरैमधिरा बुद्धिमन्तोमात्या युद्धक्रियाचतुरा योधाश्च तद्युक्तैस्तथा ह्रदयालुभिः सहृदय रणे निपुणैरित्यर्थः । कस्मादेवमुच्यत इत्याह । यत एकक एकाकिन्यसहाये त्वयि विषयेस्म्यहं कृपालुर्वते ॥ इन्द्रवंशावं. शस्थयोरुपजातिः ॥ मेधावता हृदयिना रथिनासि पातो __ गाण्डीविकेशवसमेन कृपावता यत् । तातेन तर्हि शिरसा मणिवेन नम्र स्तन्नाद्य संसरसि नासिक सोसि वीरः ॥८४ ॥ ८४. तर्हि यदा जयसिंह आसीत्तस्मिन्काले यत्त्वं मणिवेन रत्नवता शिरसा नम्रः संस्तातेन जयसिंहेन कृपावता सता पातो द्विड्भ्यो रक्षितः। कीदृशा तातेन । मेधावता तथा हृदयिना विक्रान्तेन तथा रथिनोपलक्षणत्वाद्गजाश्वपत्तिवता च शक्तित्रयोपेतेनेत्यर्थः । अत एव गाण्डीविकेशवसमेनार्जुनविष्णुतुल्येन । तत्तातकृतं रक्षणमद्य युद्धदिने न संस्मरसि । तत्तस्माच्छिन्ना नासिकास्यास्ति रे नासिक तदा कृपया तातेन रक्षितस्याद्य मयैव सह युद्धकरणेन निर्लजत्वान्नक्रवर्धिततुल्य त्वं यः प्रणम्रः कृपया तातेन रक्षितः स वीरोसि वर्तसे । यत्त्वमात्मनो भटत्वं वर्णयसि तन्मे विदितमेवेत्यर्थः ॥ १ ए ण्डीवके . २ बी म्रतन्ना. १ बी जि युद्धं. २ सी °था हृ. ३ बी तेंते । इ. ४ सी हिं तदा. ५ बी वन्तो त'. ६ बी न्मे वेदितमिवे'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy