SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ४५० व्याश्रयमहाकाव्ये [ कुमारपालः ] किमित्याह । हे सुभट भवता तनोरङ्गस्य मूल्यं मूल्यभूतमधीशवित्तं स्वामिद्रव्यं द्वौ गुणावस्य मूल्यभूतस्याधीशवित्तस्य द्विमयं द्विगुणमात्रं स्वपराक्रमस्य मानेन द्विगुणं स्वामिद्रव्यं त्वया गृहीतमास्त इत्यर्थः । तस्मात्तस्याधिकस्य द्रव्यस्य कार्य युद्विशेषं दर्शयेत्यर्थाद्गम्यत इति । एवं । वदतो महारेः शिरश्छेदरूपेणावदातेनातिरञ्जितत्वादेतत्पराक्रमापेक्षया मैया तिस्वल्पमेव दत्तमिति स्वाम्यज्ञासीदित्यर्थः ॥ द्वयेन द्वितयम् | त्रयेण त्रितयम् । अत्र “द्वि०" [१५२] इत्यादिना वायद ॥ द्विमयं यशः स्वजीवस्य । द्विमयं स्वजीवं यशसः । द्वितीयार्थव्याख्याने । हिममधीशवित्तं तनोर्मूल्यम् । द्विमयं वधू रायः क्रेयम् । अत्र "यादेर्०" [१५३ ] इत्यादिना मयट् ॥ एकादशं त्रिंशमथैकविंशं शतं सहस्रं कनकस्य लब्धा । 9 २ एकादश रुद्र इवारिमौलि भत्रे ददनिष्क्रयमाप कोपि ॥ ४९ ॥ ४९. कोपि भटो निष्क्रयं कनकलाभस्यानृण्यमाप । कीदृक् । कनकस्य शतं सहस्रं च लब्धा लभमानोपि । किंभूतम् | एकादश त्रिंशदेकविंशतिर्वाधिकास्मिञ् शते सहस्रे वा तदेकादशं त्रिंशमथाथ बैंकविंशम् । ईदृग्महादानस्यापि निष्क्रयं कथमपेित्याह । यतोरिमौलि भर्त्रे ददत् । ईदृशोपि कुत इत्याह । यत एकादशानां पूरण एकादशो रुद्रः पिनाक्यख्यस्तत्तुल्यो महावीर्यत्वात् । रुद्रोपि हि देवत्वापू (पू) - जार्थं भक्तेभ्यः कनकस्य शतं सहस्रं वा लब्धा स्यात् ॥ 93 १ए 'रिमैलिर्भ. २ सीप | किंभू. १ ए 'ण वदतो. २ सीमास्य. ३ बी 'मस्यामा ५ एमति. ६ ए "य". ७ सीम् । कीदृ. ८ सी माप्येत्या. सी नाकाख्य". ११ सीप देवता . १० ए 'क्यास्त', Jain Education International For Private & Personal Use Only ४ ए र्यं बुद्धिशे. ९ बी www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy